SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ८४ • मङ्गलकलशकथानकम् सोमचन्द्रस्ततश्च्युत्वा नृचन्द्र ! त्वमभून्नृपः । श्रीदेवी भवतश्चाभूद् देवी त्रैलोक्यसुन्दरी || ३८०।। भवतान्यभवे भाग्यभूतिः परविभूतिभिः । यदार्जि स्फूर्जितात् तस्य तवासौ भृतिपत्न्यभूत् ||३८१|| तदा तदालं यद्देव्या स्मितेनोक्तं सखीं प्रति । जवादुत्तारितं यत्तु तस्येदृक् कर्मणः फलम् ॥ ३८२॥ देव्या अपि कलङ्कस्य भवनाभवने तदा । यदभूतां महीनाथ ! प्रत्यक्षं तत् तवाप्यदः ||३८३|| परिपूर्णं पर्यपालि शीलं शालिगुणालि यत् । तत्फलं विद्धि धात्रीश ! पुनर्वं सङ्गमोऽद्भुतः ||३८४|| श्रुत्वैवं मङ्गलघटदेव्यौ मूर्च्छान्निपेततुः । प्राग्भवं पाणिस्थमिव तेन सस्मरतुश्च तौ ||३८५ ॥ चन्दनाद्यैरुपचारैराश्वस्योत्थाय दध्यतुः । की फलमनल्पीयोऽभूदल्पस्यापि कर्मणः || ३८६ ॥ यद्वा विषयलवस्यापि कर्म मारणमद्भुतम् । अपि वह्निस्फुलिङ्गस्य कर्म दाहकमद्भुतम् ||३८७|| गृहस्थतां पालयतोर्यदीदृग् नौ व्यजृम्भत । तन्न जानीवहे यन्नौ भावि राज्यं प्रशासतोः ॥ ३८८|| तन्मोक्ष्यतेऽवनीराज्यं दीक्षाराज्यं ग्रहीष्यते । सप्ताङ्गं पूर्वमवरं द्वादशाङ्गं परं वरम् ॥३८९॥ 5429 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy