SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ भूमिका लसत्तत्पट्टे वचनरचनारञ्जितजना, महावादिवाजप्रमितिकथनावाप्तविजयाः ॥ १६ ॥ वैराग्यरससल्लीना तद्गुरुभ्रातरोऽधुना।। विजयन्ते महान्तः श्रीतेजोरङ्गगणीश्वराः ॥ १७ ॥ तेषां जयन्ति जयिनः सुनया विनेयाः, सद्भागधेयमतिमत्प्रतिवाद्यजेयाः । श्रीज्ञानसुन्दरसुधी-जयवल्लभाद्याः, वाग्देवताप्रतिमसत्प्रतिभाप्रधानाः ॥१८॥ श्रीज्ञानविमलपाठकसत्पादाम्भोजचञ्चरीकेण। श्रीवल्लभेन रचिता शिलोञ्छशासने शुभा टीका॥ १९ ॥ शीलोञ्छनाममालावृत्ति-प्रशस्तिः । * * * राजच्छ्रीजिनराजसूरिगुरवोऽभूवन् पुरा भूतले, विख्यातामलकीर्तिपूरितचतुर्दिङ्मण्डला: सर्वदा। मानोन्मत्तवदावदप्रवरधीवाद्योघदुर्दन्तिनां, सिंहध्वाननिभाः प्रणाशनविधौ लब्धप्रतिष्ठोच्चयाः ॥७॥ तत्पट्टे विबुधार्चिताघ्रिकमलाब्राहृयाप्तचञ्चद्वराः, नानाशास्त्रपवित्रवृत्तिरचनाविख्यातसद्बुद्धयः । रेजुस्ते जगतीतले वरगुणाजीवावतारा इवोपाध्याया जयसागराः सुयशसः सत्पात्रशोभावहाः ॥ ८॥ तत्पट्टोदयशैलबालविलसत्सूर्योदया: पाठका, आसन् वाग्जितदेवसूरिकवयः श्रीरत्नाचन्द्राह्वयाः । तेषामन्तिषदो दिदीपिर इह क्ष्मायास्तले पाठका, नानाशास्त्रकृतोवदातयशसः श्रीभक्तिलाभाह्वयाः ॥ ९ ॥ चारित्रसार-भावाकर-चारुशुद्धांशुनामकाः शिष्याः । पाठक-गणीश-वाचकमुख्यास्तेषामजायन्त ॥ १० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy