________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे समासप्रक्रिया । विभक्तीनामलोपः
३१९
तनः । पूर्वाह्णेतराम्, पूर्वाहृतरे । विवक्षावशात् द्वयोः प्रकृष्टे विभज्ये वा तरप् “द्वयोर्विभज्ये च तरपू” (७।३।६) । यत्र सप्तम्या अलुप्, तत्र प्रथमा - सप्तम्यर्थस्य सप्तम्यैवोक्तत्वात् ; यत्र तु सप्तम्या लुप्, तत्र सप्तम्यर्थप्रतिपादनार्थ सप्तमी पुनर्दीयते । एवं पूर्वाह्वेतमां पूर्वाहृतमे । पूर्वाह्लेकाले पूर्वाह्नकाले । यद्यपि पूर्वाह्नः कालं न व्यभिचरति, तथापि बाहुलकात् समासो यथा, पृथिवीद्रव्यमिति, अथवा पूर्वाह्णे यः कालस्तस्मिन्निति वैयधिकरण्ये वा समासः । अत्र सूत्रे कालग्रहणसामर्थ्याद्वा । एवमपराह्णेकाल इत्यादि । ५ अद्व्यञ्जनादित्येव - रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्य - " नवा खित्कृदन्ते रात्रेः” (३।२।११७) इत्यत्रान्तग्रहणात्तेनात्र तनतरतमानां स्वरूपेणैव ग्रहणम् । “शयवासिवासेष्वकालात्” ( ३।२।२५ ) । अकालवाचिनोऽव्यञ्जनान्ताच्छब्दात्परस्याः शयादिषूत्तरपदेषु सप्तम्या वा लुब् न स्यात् । बिलेशयः बिलशयः । अन्तेवासी अन्तवासी । मामेवासः ग्रामवासः । बाहुलकात् मनसिशयः कुशेशयमिति नित्यमलुप् । हृच्छयः, चित्तशयः इत्यत्र नित्यं लुप् । अकालादिति १० किम् ? पूर्वाशयः । अव्यञ्जनादित्येव - भूमिशयः । " वर्षक्षरवराप्सरः शरोरोमनसो जे" ( ३।२।२६ ) । एभ्योऽष्टाभ्यो उत्तरपदे सप्तम्या अलुप् वा । वर्षेजः वर्षजः । क्षरेजः क्षरजः । वरेजः वरजः । अप्सुजम् अब्जम् । सरसिजम् सरोजम् । शरेजः शरजः । उरसिजः उरोजः । मनसिजः मनोज: । “द्युप्राषृड्वर्षाशरत्कालात्” ( ३।२।२७) । दिव्प्रभृतिभ्यः पञ्चभ्यो जे उत्तरपदे सप्तम्या नित्यमलुप् । दिविजः । प्रावृषिजः । वर्षासुजः । शरदिजः । कालेजः । " अपो ययोनिमतिचरे” १५ (३।२।२८ ) । अपशब्दात्सप्तम्या यप्रत्यये योनिमतिचरेषु चोत्तरपदेषु सप्तम्या अलुप् स्यात् । अप्सु भवः अप्सव्यः, “दिगावि०” ( ६ । ३ । १२४ ) त्वाद्यः । अप्सुयोनिः । अप्सुमतिः । अप्सुचरः । "नेन्सिद्धस्थे” ( ३।२।२९ ) । इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोः सप्तम्या अलुप् न, लुबेवेत्यर्थः । स्थण्डिलशायी । साङ्काश्यसिद्धः । समस्थः । " प्राक्कारस्य व्यञ्जने" ( ३।२।१९ ) । राजलभ्यो रक्षानिर्देश: कारः । प्राचां देशे यः कारस्तस्य नाम्नि संज्ञायां गम्यायामव्यञ्जनात्परस्याः सप्तम्या व्यञ्जना - २० दावुत्तरपदे लुब् न । मुकुटे मुकुटे कार्षापणो दातव्यः, मुकुटेकार्षापणः । एवं स्तूपेशाणः । दृपदिमापकाः समिधिमाषकः । वृत्तौ वीप्साया दानस्य चान्तर्भावः । व्यञ्जन इति किम् ? अविकटे अविकटे उरणो देयः - अविकटोरणः । अविकटोsविसमूहः । अव्यञ्जनादित्येव-नध्यां नध्यां दोहो देयो नधीदोहः । अव्यञ्जनादित्येव सिद्धे नियमार्थोऽयं योगः । त्रिविधश्चात्र नियमः - प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवोत्तरपद इति । "तत्पुरुषे कृति” ( ३।२।२० ) । नाम्नीति निवृत्तम् । अव्य- २५ ञ्जनात्परस्याः कृदन्ते उत्तरपदे सप्तम्या लुब् न । स्तम्बे रमते स्तम्बेरमः । एवं कर्णेजपः । गेहेनदीं । गेहेक्ष्वेडी । पात्रेसमिताः । प्रवाहेमूत्रितम् । उदकेविशीर्णम् । अवतप्तेनकुलस्थितम् । व्यञ्जन भस्मनितम् || बाहुलकात् क्वचिदन्यतोऽपि गोषुचरः । क्वचिन्निषेधो न भवति - मद्रचरः ॥ कचिद्विकल्पःखेचरः खचरः । वनेचरः वनचरः । पङ्केरुहम् पङ्करुहम् । सरसि रुहम् सरोरुहम् । दिविषत् सत् ॥ क्वचिदन्यवदेव- हृदयं स्पृशतीति हृदिस्पृक्, द्वितीयार्थेऽत्र सप्तमी । एवं दिविस्पृक् । " मध्यान्ता - ३० गुरौ ” ( ३।२।२१) | मध्ये गुरुः अन्तेगुरुः । मध्यगुरुः अन्तगुरुः इत्यप्यन्ये ॥ एतत्सर्वं मनसिकृत्याहकचिद्वेत्यादि ॥ इति सप्तमी । वाचस्पत्यादय इति । अत्र सूत्रम् - " वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्” ( ३।२।३६ ) । एते षष्ठीलुबभावे निपात्यन्ते, नाम्नि विषये । अत्र षत्वं सत्वं च निपातनात् । वाचस्पतिः सुरगुरुः । वास्तोष्पतिर्दिवस्पतिश्च शक्रः । दिवोदासनामा च कश्चित् ।
1
** इत्यलुप्समासप्रकरणम् +
Jain Education International
For Personal & Private Use Only
३५
www.jainelibrary.org