________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२९३ अथात्र "प्रथमोकं प्राक्" (३।१।१४८) इत्यस्यापवादमाह"राजदन्तादिषु" (३२११४९)। प्राङ्गिपाताहपदस्य विपर्ययः। दन्तानां राजा राजदन्तः।
"राज." । राजदन्त इति अत्र “षष्ठी.” (३।१।७६) इति प्रथमोक्तत्वेन दन्तस्य पूर्वनिपाते प्राप्तेऽनेन विपर्ययः । ऋणेऽधमः अत्र "सप्तमी" (३।११८८) इति प्रथमोक्तत्वेन ऋणस्य प्रामिपाते प्राप्ते विपर्ययः । एवमुत्तमर्णः । दारजारौ । दारशब्द एकवचनान्तोऽप्यस्ति । अत्रानियमे दारशब्दस्यैव५ प्रानिपातः । दारार्थों विष्वक्सेनार्जुनौ शूद्रायौँ विषयेन्द्रियाणि प्राणिगजाश्वौ अवन्त्यश्मका:-अत्रार्थादीनां खराद्यदन्तत्वात् , उल्लूखलमुशले तण्डुलकिण्वे-अत्र मुशलकिण्वयोरल्पखरत्वात् ; चित्राखाती-माणविके, केशश्मश्रू, पुत्रपशू शिरोजानू शिरोविजू, विजुः कृकाटिका । भार्यापती पुत्रपती स्वसृपती जायापती जम्पती दम्पती, इत्यादौ खात्यादीनामिदुदन्तत्वात्प्राग्निपाते प्राप्ते विपर्ययः। गणपाठाजायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । नरनारायणौ सोमारुद्रौ कुबेरकेशवौ उमामहेश्वरौ काकमयूरो, इत्यादाव-१०
य॑त्वान्नारायणादीनाम् ; पाण्डुधृतराष्ट्रौ विष्णुवासवौ, इत्यत्र धृतराष्ट्रवासवयोज्येष्ठभ्रातृत्वात्प्रानिपाते प्राप्त विपर्ययः । बहुवचनमाकृतिगणार्थम् । तेन कचिद्विकल्पः-पुरुषोत्तमः उत्तमपुरुषः, मध्यगृहम् गृहमध्यम् , अधरबिम्बम् बिम्बाधरः । ओष्ठबिम्बः बिम्बौष्ठः इत्यादि ।
___ अथात्र समासान्तविधिमाह.१५ तत्पुरुषादतसमासान्तौ यथायोगं वक्तव्यौ । “ऋक्तापथ्यपोऽत्” (७।३।७६ )। राज्ञः१५ पूः राजपुरम् । मोक्षस्य पन्थाः मोक्षपथः ।
तत्पुरुषादित्यादि, तत्पुरुषादित्युपलक्षणम् , यथासम्भवमन्यसमासादप्ययमत्समासान्तो भवति । तथाहि-"कपू०" । ऋच-पुर-पथिन्-अप् एतदन्तात्समासादत्समासान्तः स्यात् । ऋचोऽर्द्धमर्द्धः । ऋचः समीपमुपर्चम् । उच्चारितर्थः । श्रियाः पू: श्रीश्चासौ पूश्चेति वा श्रीपुरम् त्रिपुरम् स्फीतपुरो देशः । पथिन्. जलथलः उपपथम् प्रतिपथम् । विशालपथं नगरम् । अप. द्विर्गता आपोऽस्मिन् द्वीपम् समीपम् २० प्रतीपम् । बह्वपं तडागम् । पुरपथशब्दाभ्यां सिद्धेऽस्मिन् विषये पुपथिनशब्दप्रयोगनिवृत्त्यर्थं वचनम् (समासान्तविषये व्यञ्जनान्तयोः प्रयोगो न भवतीत्यर्थः) । "धुरोऽनक्षस्य” (७३७७) । धुरन्तात्समासादत्, अनक्षस्येति सा चेटूंरक्षसम्बन्धिनी न भवति । राज्यधुरा द्विधुरी त्रिधुरी उपधुरम् महाधुरम् शकटम् । अनक्षस्येति किम् ? अक्षधूः, दृढधूरक्षः। “सयापाण्डूदकृष्णाद्भूमेः" (७३।७८)। द्वयोर्भूम्योः समाहारो द्विभूमम् । द्वे भूमी अस्य द्विभूमः प्रासादः । पाण्डुर्भूमिः पाण्डु-२५ भूमम् , पाण्डुभूमो देशः । उदीची भूमिरुदग्भूमम् , उदग्भूमो देशः । कृष्णा भूमिः कृष्णभूमम् , कृष्णभूमो देशः । भूमोऽसङ्ख्यात एकार्थ इति पाण्डुभूमादेर्नपुंसकत्वम् । सङ्ख्यादिभ्य इति किम् ? सर्वभूमिः । "उपसर्गादध्वनः” (७।३।७९)। प्रगतमध्वानं प्राध्वं शकटम् , प्राध्वो रथः । “समवान्धात्तमसः” (७।३।८०)। सन्ततं तमः सन्ततं तमसा सन्ततं तमोऽस्मिन्निति वा सन्तमसम् । अवहीनं तमोऽवहीनं तमसा अवहीनं तमोऽस्मिन्निति वा अवतमसम् । अन्धं करोतीत्यन्धम् , अन्धं च तत्तमश्च,३० अन्धंतमोऽस्मिन्निति वाऽन्धतमसम् । अन्धश्च तमश्च अन्धतमसमन्धतमसे इति वा । "तप्तान्ववाद्रहसः” (७३।८१) । (तप्तं) तप्ताय इवानधिगम्यं रहस्तप्तरहसम् । तप्तं रहोऽस्येति तप्तरहसः । ३२
१ तिसृणां पुरां समाहारः । उत्तरपदस्यादन्तलाभावात् स्त्रीखाभावः। किन्तु अन्यस्तु सर्वो नपुंसकः। २ शब्दद्वारकमेतन्नार्थद्वारकम् , तेन महाधुरं शकटमिति सिद्धम् । ३ द्वयोधुरोः समाहारः तिसृणां धुरां समाहारः । अन्यस्तु सर्वो नपुंसक इति वचने सत्यपि तदहुत्वमिति स्त्रीले 'द्विगोः' इति कीः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org