________________
२१८ .
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमकर्माणो नित्याकर्माणः, सर्वथाऽविद्यमानव्याप्या इत्यर्थः; नीखाद्यदिह्वयतिशब्दायतिक्रन्दिवर्जितानां गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनामणिगवस्थायां यः कर्त्ता स णौ सति कर्म स्यात् । गत्यर्थ. गच्छति मैत्रो ग्रामम् , गमयति मैत्रं ग्रामम् , याति मैत्रो ग्रामम् , यापयति मैत्रं प्रामम् ; देशान्तरप्राप्तेरन्यत्र न भवति-स्त्रियं गमयति मैत्रेण चैत्रः, भजनार्थोऽत्र गमिः ॥ ५सामान्यबोधार्थ.-बुध्यते शिष्यो धर्मम् , बोधयति गुरुः शिष्यं धर्मम् , जानाति शिष्यो धर्मम् , ज्ञापयति गुरुः शिष्यं धर्मम् । एवम् उपलम्भयति अवगमयतीत्यादि ॥ विशेषबोधार्थ.-पश्यति रूपतर्कः कार्षापणम् , दर्शयति रूपतर्क कार्षापणं वणिक्; एवम् प्रापयति मैत्रमुत्पलम् , स्पर्शयति मैत्रं वस्त्रम् , श्रावयति शिष्यं धर्मम्, स्मारयति शिष्यं धर्मम् , अध्यापयति शिष्यं शास्त्रम् ।
अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति नान्येषाम्-तन्मते जिघ्रत्युत्पलं चैत्रः, घ्रापयत्युत्पलं १० चैत्रेण मैत्रः; एवं स्पर्शयति चैत्रेण वस्त्रम् , श्रावयति धर्म शिष्येण इत्यादौ प्रयोज्यकर्तरि तृतीयैव
भवति ॥ आहारार्थ.-भुते बटुरोदनम् , भोजयति बटुमोदनम् , अनाति बटुर्भक्तम् , आशयति बटुं भक्तम् ॥ शब्द क्रिय.-जल्पति मैत्रो द्रव्यम् , जल्पयति मैत्रं द्रव्यम् ; एवम् आलापयति मित्रं मैत्रम् , सम्भाषयति मैत्रं भार्याम् । शब्दव्याप्य.-शृणोति शब्द मैत्रः, श्रावयति शब्दं मैत्रम् , अधीते
बटुर्वेदम्, अध्यापयति बटुं वेदम् । एवम् जल्पयति मित्रं वाक्यम् , विज्ञापयति गुरुं वाक्यम् , १५ उपलम्भयति शिष्यं विद्याम् ॥ ननु शब्दकर्मेत्यनेनैकप्रयत्नेनोभयाग्रहणाद्वाक्यभेदप्रसङ्गात्कथं शब्दक्रिय
शब्दकर्मकाणामुभयेषां परिग्रहः ? उच्यते-हयत्यादीनां त्रयाणां शब्दक्रियत्वेन प्राप्यभावात् , प्रतिषेधवैयर्थ्यप्रसङ्गात् , कर्मशब्दस्य क्रियावचनता । ह्वयत्यादयो हि धातवः साध्यमानावस्थं क्रियारूपं शब्दमभिदधतीति शब्दक्रियत्वादतिप्रसङ्गे सति प्रतिषेधो विधीयते । शब्दायतेश्च शब्दं करोतीति क्यडि
शब्द क्रियालक्षणस्य कर्मणोऽन्तर्भावात्कर्मान्तरायोगाच्चाकर्मकत्वादपि संज्ञाप्रसङ्ग इति । एवम् जल्पति२० विलपत्याभाषतीनां जल्पयति देवदत्तमित्यादौ शब्दनक्रियावृत्तीनां शब्दनक्रियाग्रहणे सिद्ध्यति । देवदत्तं
जल्पतीत्यादीनां शब्दकर्मत्वाभावात् । एवं च कर्मग्रहणानर्थक्यं गतिबोधाहारशब्दार्थेति कृते सिद्ध्यतीति कर्मग्रहणं साधनकर्मपरिग्रहार्थम् , तेन शृणोति विजानाति उपलभते इत्येषामपि सिद्ध्यति; शृणोत्यादयो हि उपलब्धिरूपेऽर्थे वर्तमानाः शब्दक्रिया न भवन्ति, शब्दसाधनकर्माणस्तु भवन्ति, तद्विषयत्वेनैव
प्रयोगात् । एवं जल्पत्यादीनामपि श्लोकादिद्रव्यविशेषकर्मणां साधनकर्मपरिग्रहादेव सिद्धिः न चैषां २५ बुद्ध्यर्थता, बोधशब्देन बोधसामान्याश्रयणपक्षे वेत्त्यादयो ज्ञानमात्रप्रवचना बुद्ध्यर्थाः। विजानात्युपल
भत इत्येतौ यद्यप्युपलब्धिमात्रवचनौ तथापि प्रयोजकव्यापारविवक्षायां करणादिवशायदा शब्दादिविषयामेवोपलब्धि प्रत्याययतस्तदा साधनकर्मवचनासिद्ध्यति नत्वन्यथेत्युभयार्थोऽत्र कर्मशब्दः; न च वाक्यभेदः श्वेतो धावतीतिवत् ॥ नित्याकर्मक.-आस्ते मैत्रः, आसयति मैत्रं चैत्रः, शेते मैत्रः, शाययति
मैत्रं चैत्रः; नित्यग्रहणं पूर्वत्राविवक्षितकर्मपरिग्रहणार्थमन्यथा विभागो न ज्ञायेत । कालाध्वभावदेशैश्च ३० सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यर्थादीनामिति किम् ? पचत्योदनं चैत्रः, पाचयत्योदनं चैत्रेण मैत्रः । अणिकर्तेत्येव-गमयति चैत्रो मैत्रम् , तमपरः प्रयुङ्क्ते गमयति चैत्रेण मैत्रं जिनदत्तः । नयत्यादिवर्जनं किम् ? नयतेः प्रापणोपसर्जनप्राप्त्यर्थत्वेन गत्यर्थत्वम्अत्र प्रापणीया उपसर्जनं तच्चासौ प्राप्तिश्चेति विग्रहः, खाद्यद्योराहार्थत्वम् , ह्वाशब्दायक्रन्दां च शब्दकर्मत्वम् , तत एषां कर्मत्वं प्राप्तं प्रतिषिद्ध्यते । यथा नयति भारं चैत्रः, नाययति भारं चैत्रेण; खादयत्यपूपं मैत्रैण, आदयति ओदनं मैत्रेण; हाययति चैत्रं मैत्रेण; शब्दाययति चैत्रं मैत्रेण, क्रन्दयति ३६ मित्रं मैत्रेण । कर्मसंज्ञाप्रतिषेधात्स्वव्यापाराश्रयं कर्तृत्वमेव । प्रेषणाध्येषणादिना प्रयोजकव्यापारेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org