________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे व्यञ्जनान्ताः पुंल्लिङ्गाः । मकारान्तादयः १३७ इद० । इदम् च अदस् च इदमदस् तस्य इदमदस् ६.१ "लोकात्” “सो रुः" । अक् ७-१ "लोकात्” । एव १-१ "अव्ययस्य" । मध्ये "अतोऽति." "अवर्णस्ये.” "एदोतः.” “इवर्णादे०”। "लोकात्” । त्रिपदमिदं० । अस्मै अस्मात् अस्य-अत्र "आवरः" इति मस्य अत्वे "लुगस्या०" इद इति जाते “सर्वादेः स्मैस्मातौ" "टाङसोरिनस्यौ” इति डेङसिङसां स्मैस्मात्स्यादेशे विभक्तीनां व्यञ्जनादित्वात् "अनक्" इत्यकारो भवति । इदम् ६-२ "टौस्यनः" इत्यनादेशे "टौस्येत्” इत्येत्वेऽ-५ यादेशे अनयोः । अन्वादेशे एनयोः । साकोऽप्येवम् एनयोः । एवम् सप्तमीद्विवचनेऽपि । इदम् ६-३ "आद्वेरः" "लुगस्या.” इद आम् इति स्थिते "अवर्णस्यामः साम्" इत्यामः सामादेशे ततोऽनक् इत्यकारादेशे “एद्वहु०" "नाम्यन्तस्था०” एषाम् । इदम् ७-१ इति स्थिते "डे: स्मिन्" इति स्मिन्नादेशे "अनक्" इत्यकारादेशे अस्मिन् । इदम् ७-३ "अनक्" "एदहु०" "नाम्यन्तस्था०" एषु । अकि तु अन्वादेशे द्वितीयाटौसि परे एनदादेशो न स्यादित्येके। अक्सहितस्यापीदमोऽन्वादेशे एनदादेशः१० स्यादित्यन्ये । तथा अन्वादेशे साकोऽपि निरकोऽपि इमो भ्याम्भ्यसादिषु व्यञ्जनादिस्यादिषु अदादेशो भवति नान्यथा । एतत्सर्वं रूपदर्शनेनैव व्यक्तीक्रियते । साकोऽपि अयमादेशे अयम् । अपरे त्वादेशानन्तरमकमिच्छन्ति अयकम् । इमको इमके इमकम् एनम् , इमको एनौ इमकान एनान् इमकेन एनेन इमकाभ्याम् आभ्याम् इमकेभ्यः एभ्यः इमकस्मात् अस्मात् इमकाभ्याम् ३ । अस्य इमकस्य इमकयोः एनयोः इमकेषाम् एषाम् इमकस्मिन् अस्मिन् इमकेषु एषु ॥ ३७ ॥ किम्शब्दस्य विशेष-१५ माह सूत्रम्
किमः कस्तसादौ च ॥३८॥ [सि० २।१।४०] स्यादौ तसादौ परे किमः कः स्यात् । का। साकोऽपि कः। कौ । के। सर्ववत् ॥ ३८ ॥ चतुशब्दो बहुवचनान्तः।
किमः । किम् ६-१ "लोकात्" "सो रुः" "रः पदान्ते."। क १-१ "सोरुः"। तस आदिर्यस्य २० स तसादिः तसादि ७-१ "ङिडौँ” "डित्यन्त्य०"। च १-१ "अव्ययस्य"। मध्ये "चटते सद्वितीये" इति रस्य सः । चतुष्पदमिदं० । सर्ववदिति अकारान्तत्वात्सर्वादित्वाचेति भावः ॥ ३८ ॥ अथ यकारान्ता अप्रसिद्धा इति रेफान्तश्चतुशब्द उच्यते स च मुख्यतया बहुवचनान्त एव । चतुर् १-३ इति स्थिते सूत्रम्
वाः शेषे ॥ ३९॥ [सि० १।४।८२] खेऽस्खे वा शेषे घुटि परेऽनडुच्चतुरोरुतो वाः स्यात् । चत्वारः । चतुरः। चतुर्भिः। चतुर्म्यः २ । चतुर्णाम् ॥ ३९ ॥
वाः । वा १-१ "सो रुः" "रः पदान्ते."। शेष ७.१ "अवर्णस्ये०" । द्विपदमिदं० । अनेन उकारस्य वादेशे चत्वारः ॥३९॥ शसि घुट्त्वाभावात् वादेशो न भवति ततः चतुरः । एवं चतुर्भिः ३ । "सङ्ख्यानां र्णाम्" इत्यामो नामादेशे "रघुवर्णान्नो ण.” इति चतुर्णाम् । चतुर् ७-३ इति स्थिते ३० "शषसे शषसं वा” इति रेफस्य सत्वे प्राप्ते "रः पदान्ते.” इति विसर्गे च प्राप्ते विशेषसूत्रम्
अरोः सुपि रः ॥ ४० ॥ [सि० ११३१५७ ] रोरन्यस्य रस्य सुपि परे र एव स्यात् । चतुषु । प्रियचत्वाः । प्रियचत्वारौ २ ॥४०॥ ३३
है. प्रका. पूर्वा० १८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org