________________
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः तस्मात् सच्चेतनादिरूपेण इव विभ्रमविवेकरूपेणापि बुद्धिः चकास्ति केवलं तदुत्तरकालभाविनी विकल्पबुद्धिः तत्रासन्तं ग्राह्याद्यावरणपट परिकल्प (प्य) तद्विवेकं संवृणोति नेतरद् रूपम् । तदुक्तं केनचित्
* "अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥" [प्र० वा० २।३५४] विकल्पेन निश्चीयते इति । तत्राह-सु (स्व)व्यक्त इत्यादि । व्यक्तोऽसंवृतः चेतनादिस्वभावः, तत्संवरणे क्षणविवेकवत् बुद्धिव्यवहारोच्छेदः । संवृतो दर्शितः तदभावे विभ्रमविरहात् शास्त्रमनर्थकम् । स्वौ व तो (च' तौ) व्यक्तसंवृतात्मानौ च व्याप्नोति तदात्मकं
भवति एकं स्वलक्षणं बुद्धिवस्तु यदि इत्यनेन पराभ्युपगमं दर्शयति । तर्हि इति अत्र द्रष्ट१० व्यम् । हेतुफलात्मानौ व्याप्नोति एक स्वलक्षणम् । तदेवं क्रमाऽनेकान्तसिद्धेः एकस्य कार्यकारणभावनिषेधनं सौगतमतघाति ।
ग्राह्याद्याकारविवेकं निर्मलं विज्ञानं तावत् न संभवति इति न बुद्धत्या (बुद्धेरित्या) दिना प्रतिपादयन् तदभ्युपगम्य चेयं कारिका कृता इति च 'कथश्चिद्' इत्यादिना 'व्यक्तेतर'
इत्यादिना कारिकां विवृण्वन्नाह-न बुद्धः इत्यादि । न बुद्धेः ग्राह्यग्राहकाकारौ भ्रान्तावेव १५ मनोविकल्पभ्रान्तिरचितावेव न तात्त्विको इति एवकारार्थः । कुतः ? इत्यत्राह-स्वयं सौगतस्य
योऽयम् ‘सर्वमविभागं ज्ञानम्' इति एकान्तः [३१३ ख] तस्य हाने विकल्पे तो (तौ) भावतः स्याताम् , कथमन्यथा *"अविभागोऽपि बुद्ध्यात्मा, ग्राह्यग्राहकसंवित्तिभेदकानिव विकल्पेन लक्ष्यते ।" [प्र० वा० २।३५४] इति सुभाषितं त[स्य] स्यात् , तदेकान्ते विकल्प
भावात् । सोऽपि तदन्तरेण न ; इत्यपि वार्तम् ; तत्रापि तथाकल्पने अनवस्थानात् । *"विकल्पो २० वस्तु तस्व द्वा (ऽवस्तुनिर्भासः)" नान्यदिति किं कृतोऽयं विभाग इति मन्यते ।
तत्रैव दूषणान्तरमाह-तौ वेदिनौ (वेदिनः) ग्राह्यग्राहकाकारौ चेत यदि भ्रान्तौ निरंशबुद्धौ विकल्पारोपितौ किम् अभ्रान्तम् तदाकाररहितम् न किश्चित् यद् अभ्रान्तं प्रत्यक्षं स्यात् । इदमत्र तात्पर्यम्-यदि अविभागो बुद्ध्यात्मा कदाचित् प्रतिपन्नः स्यात् तद् ‘विकल्पेन तौ' तत्र
आरोपितौ' इति, नान्यथा । नहि शुक्तिकाऽसिद्धौ तत्र रजतारोपसिद्धिः, रजतत्ववद् रजते २५ विकल्पे च तौ यदि सिद्धौ भवतः । न चैवमिति ।
. ननु प्रतिभासि (भासते) सर्वदा तदात्माऽविभागः, तौ च विकल्पारूढौ इति चेत् ; अत्राह-तौ ग्राह्यग्राहकाकारौ हि खलु तस्य बुद्ध्यात्मनः आत्मानौ स्वभाषौ । कुतः ? इत्याहतव्यतिरेकेण तदाकारव्यतिरेकेण एकान्तस्य एको ग्राह्यादिरहितोश्चेतनैव (तोऽन्तश्चेतनैव)
अन्तो धर्मो यस्य तस्य अनुपलब्धेः । तदुपलम्भमभ्युपगम्य दूषणमाह-कथञ्चिद् इत्यादि । ३० शब्दादिरूपेण न विवक्षितरूपेण उपलब्धौ संशयादिव्यवच्छेदेन निर्णीतौ सत्यां च तद्विवेकानुपलब्धौ तस्य विभ्रमस्य विवेकस्य अनुपलब्धौ उपलब्धस्यापि संवृतौ 'सत्यां च' इत्यनु
(1) ग्राह्यग्राहकाकारौ । (२) अविभागबुद्धौ । (३) ग्राह्यग्राहकाकारौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org