________________
२५८
वृद्धाग्रे भणितं तेन, यदेतद् व्यजनं त्वया I षोडशाधिकया पञ्चशत्या विक्रेयमापणे ॥ ११६ ॥ प्रत्यहं सा तदादाय, नृभ्योऽदर्शयदापणे । महार्घ्यमिति तेऽप्युक्त्वा तालवृन्तं समत्यजन् ॥ ११७ ॥ अन्यदा पौरलोकेभ्यस्तद्वार्त्ता श्रावि भूभुजा ।
श्रीदानोपदेशमाला (गा. ४७)
सकौतुकेन तेनापि तदानाय्य व्यलोक्यत ॥ ११८॥ तद्विलोक्य स्वनामाङ्कं सविज्ञानं महीभुजा । ततोऽस्यै द्विगुणं मूल्यं वृद्धायै प्रवितारितम् ॥ ११९ ॥ कस्य विज्ञस्य विज्ञानमिदं पृष्टा महीभुजा । वृद्धाह देव ! देवेन्द्राकारस्याङ्गरुहस्य में ॥ १२०॥ सस्मयेन राज्ञासावाकार्याप्रच्छि सादरम् ।
अन्या अपि कला वेत्सि, ततः सोऽप्युक्तवानिति ॥ १२१ ॥ नारीणां च नराणां च जानामि सकलाः कलाः 1
सा विद्या भुवने नास्ति यां न वेद्मि नरेश्वर ! ॥ १२२ ॥ इत्याकर्ण्य नृपः पुत्रानचलादीन् कलासु मे । कुरुष्व कोविदानेवं साहसाङ्कं समादिशत् ॥ १२३॥ सोऽथ लक्षणसाहित्यच्छन्दोऽलङ्कारसंयुतान् । धनुर्वेदायुधन्यायग्रन्थांस्तानध्यजीगपत् ॥ १२४॥ तथाशिक्ष्यन्त दक्षत्वं कुमारास्तेन वाग्मिना । यथा वादेऽपि ते देवसूरिं दूरयितुं क्षमाः ॥ १२५॥ विचार्य विद्याचातुर्यं, पुत्राणां प्राह भूपतिः । साहसाङ्कं भणाभीष्टं तुभ्यं किं दीयते मया ॥ १२६॥ सोऽप्यवोचदिलापाल ! शुल्कशालां प्रयच्छ मे । ओमिति स्वीकृते राज्ञा स्वाधिकारं स चाश्रयत् ॥ १२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org