________________
योगवार्तिकम् ।
१४९ वियोगसंयोगयोस्तदुभयकार्यत्वाचियादित्यर्थः । ननु अदर्शनं संयोगका रणं तर्हि प्रदर्शनाभावादेव संयोगविनिवृत्त्यात्मको मोसो भविष्यति कचंद र्शनमपि मोतहेतुरुच्यते इत्याशड्डायामाह । नात्र दर्शनमिति । अस्मच्यास्त्रे दर्शनं तत्वज्ञानं न मोक्षकारणं गौरवात विरोधादिभिर्व्यवधानेन मो. चाव्यवहितप्राक्काले ज्ञाने नियमासंभवात किं तु प्रदर्शनस्य वत्यमाणः रूपस्याभावादेव द्रष्टदृश्यसंयोगाभावः स एव मोत इत्यर्थः । एतेन मातस्यानिमितिकतया स्वाभाविकस्वरूपं नित्यत्वं लब्धम् । नन्वेवं विवेकख्यातिरविनवा हानोपाय इयायमसूत्रविरोधो दर्शनं वियोगस्य कारणमिति स्वोक्तिविरोधश्च तत्राह। दर्शनस्य भाव इति । सुगमम् । उक्तं शास्त्र। तथा च तत्त्वज्ञानं मोक्षे प्रयोनकमामिति । उत्तरसूत्रेणासाधारणं संयोगहेतुमदशनमवधारयितुमुक्तादर्शनं विकल्प्य पृच्छति । किं चेदमिति । किं पुनः संयोगकारणत्वेनोक्तमदर्शनमित्यर्थः । नामेति वाक्यालङ्कारे। यपि संयोगोः दर्शनकारणमितिसूत्रणादर्शनस्यानुत्पाद एव संयोगहेतुतयान असतो. नान्यः । तथापि तत्समनियततया अन्येषामपि संशयकोर्घटत्वं बोध्यम् । तत्र प्रथमो विकल्पः किं गुणानामिति । गुणानां सत्त्वादीनाम् अधिकार कार्या. रम्भणसामर्थ्यम् । ज्ञानान्यदग्धा कार्यविशेषजननशक्तिरित्यर्थः। ततोऽपि हि संसारहेतुसंयोगविशेषो जायतइति द्वितीयं विकल्पं परित्यज्य सर्वविकल्पेषु बन्धमत्वगुणयोगेनादर्शनशब्दो गौणः । द्वितीयं विकल्पमाह । आहोस्विदिति । प्रदर्शनमित्यत्र दर्शनशब्दस्य कारणसाधनत्वप्रतिपादनाय दृशिरूपस्य स्वामिनो दर्शितविषयस्येति चित्तविशेषणं दृशिस्वरूपाय स्वामिने दर्शितो विषयो येन तस्येत्यर्थः । उक्तमेव विवृणोति । स्वस्मिविति । स्वस्मिंश्चित्ते पुरुषार्थरूपेण दृश्ये शब्दादि वृत्ती सत्त्वपुरुषान्यतावृत्तीच सति यो दर्शनाभावश्चित्तवृत्त्यभाव इत्यर्थः। मोतकालीनं दर्शनाभावं व्यावर्तयितुं सत्यन्तम् । संयोगाहेतुतया तु तादृशमदर्शनं नात्र विचारणीय चित्ते हि पुरुषार्थसत्तायामेवादर्शनं संयोगहेतुर्भवति इति भावः । व्यर्थतया द्वितीयविकल्पस्य विशेष्यभागपरित्यागमात्रेण तृतीयं विकल्पमाह। किमर्थवत्तेति । सत्कार्यसिद्धीविभोगापवर्गयोरव्यपदेश्ययोः स्वकारणेषु गुणेषु अवस्थान
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org