SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् पञ्चचत्वारिंशत्सहस्री च श्राविकाणाम् ।। दीक्षादिनादेकाङ्गोने पूर्वलक्षे गत आसन्नमोक्षः प्रभुः साधुसहस्रेण समं सम्मेताद्रौ मासिकेनाऽनशनेनोद्र्ध्वस्थित एव चैत्रशुक्लपञ्चम्यां मृगशिरसि सिद्धिसुखभाग् बभूव । कौमारेऽष्टादशपूर्वलक्षी । राज्ये त्रिपञ्चाशत्पूर्वलक्षी । व्रताच्छद्मस्थत्वे द्वादशाब्दी । केवले पूर्वलक्षं द्वादशाब्द्या पूर्वाङ्गेण हीनम् । एवं द्वासप्ततिः पूर्वलक्षाः प्रभोः सगरचक्रिमुनेश्च सर्वायुः । श्रीऋषभदेवमोक्षात् सागरोपमाणां पञ्चाशत्कोटिलक्षेषु गतेषु श्री अजितस्वामिमोक्षः । सगरचक्रिमुनिरपि सिद्धः । मोक्षमहिमा च प्राग्वत्।। अजितजिनचरित्रमत्युदारं, चरितमथो सगरस्य चक्रिणोऽपि । श्रवणयुगपवित्रतां विधत्ता, द्वयमिव कुण्डलयोर्जनस्य शश्वत् । । ९८ ।। ( पुष्पिताग्रा) । ।। श्रीसम्भवचरित्रम् ।। श्री सम्भवाय भवतां भवताज्जिनेन्द्रः, श्रीसम्भवो भवमहोदधिवाडवाग्निः । यस्य प्रतापमहिमापरिवर्द्धमानः, सत्त्वाधिकैरपि जलैर्गमितः शमं न । । ९९ ।। (वसन्ततिलका) धातकीखण्डद्वीप ऐरावतक्षेत्रे क्षेमायां पुर्यां विपुलवाहनो राजा जिनधर्ममयं राज्यं न्यायेन पालयति । तत्र चान्यदा प्रजानामभाग्यान्न वृष्टो मेघः । जातं दुर्भिक्षमतिघोरम् । ततो राजा प्रवृत्तश्चिन्तयितुम् किमम्भोऽम्भोधीनां सकलमपि कुम्भोद्भवमुनिः, uut भूयोऽप्यौर्व क्षुदधिकतया भस्म किमभूत् । Jain Educationa International ५७ - For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy