________________
हरिवंशपुराणं।
४६६
षत्रिंशः सर्गः । प्रणयसाहितमित्थं प्रनितः प्राह कृष्णः प्रहसितमुखपद्म पद्ममालोक्य वाक्यं । शृणु वचनमिहार्य त्वं मदीयं प्रसिद्ध स्फुटवदनविकाराल्लक्षितं चित्तदुःखं ॥ २० ॥ श्रुतगुरुरसि विद्वान् वेत्सि लोकानुवृत्तिं त्वमुपदिशसि मार्ग चार्य वर्य पुरस्य ।। तदिह भण सुपूज्यां युज्यते मे यशोदामतिपरुषवचोभिस्ते तिरस्कर्तुमद्य ॥२१॥ इति सुविहितमन्यु गंगदत्तं गदंतं हृषिततनुरुहोसौ गाढमाश्लिष्य दोभ्या॑ । अवददविरलश्रुपातसंसूचितांतःकरणविशदवृत्तिः सर्ववृत्तांतमस्मै ॥२२॥ मुनिवचनमवंध्यं तज्जरासंधजायाः पटुमदवशवृत्तेर्हेतुतो वृत्तमादौ । निधनमपि च षण्णां देवकीगर्भजानां क्षुभितहृदयकंसापादितं कोपहेतुं ॥ २३ ॥ प्रसवसमयतो,ग्गोकुले लीनवृत्ति रिपुविहितमनेकापायमप्यत्र बाल्यात् । प्रभृति सकलमग्रे मल्लसंग्राममुग्रं विरचितमवधार्य द्विड्वधेऽधत्त चित्तं ॥ २४ ॥ हरिरिति हरिवंशं रौहिणेयादशेष पितृजनगुरुबंधुं भ्रातृवर्ग विदित्वा । प्रमदपुरुमुवाहश्रीमुखांभोजलक्ष्मीहरिरिव गुरुभूभृद्भरिरक्षासनाथः ॥ २५ ॥ हितसहजतयोत्थस्नेहसंपृक्तभावौ सुसरिति यमुनायां तौ महामीनलीलौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org