________________
हरिवंशपुराणं।
४५९
पंचत्रिंशः सर्गः । सुवर्णकर्णाभरणोज्ज्वलामं सुबंधुजीवालिकमुच्चमौलि ।
हिरण्यरोचिर्वलयः प्रकोष्ठं सुपादगोपालकसानुवंशे ॥५६ ।' यशोदथानीय यशोदयाढ्यं प्रणामितं पुत्रमसौ सवित्री।
सुगोपवेषं निकटे निषण्णं परामृशंती चिरमालुलोके ।। ५७ ॥ जगौ च देवी विपिनेऽपि वासस्तवेदृशापत्यदृशो यशोदे ।
यशस्विनि श्लाध्यतमो जगत्यां न राज्यलाभोऽभिमतोऽनपत्यः ॥५८॥ जगाद गोपी भवती यथाह तथैव मे स्वामिनि सत्यमेतत् ।
तथैव संतोषविशेषदोषी प्रियाशिषा जीवतु निलमृत्यः ॥ ५९ ॥ इहांतरे सा सुतदर्शनेन सुनिर्भरप्रस्तुतसुस्तनौ तौ।
शशाक नो संवरितुं क्षरंतौ न संवृतिः स्यात्सति चित्तभेदे ॥ ६ ॥ रिपोर्भयात्पुत्र वियोजितोऽसि न दुष्टबुद्धयेति विशुद्धिमंतः ।
स्तनक्षरक्षीरनिभेन राज्ञी प्रदर्शयंतीव तदा रराज ॥ ६१ ॥ प्रकाशभीरुः सहसा ततोसौ हलायुधः क्षीरघटेन दक्षः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org