SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ७५६ द्विषष्टितमः सर्गः । संसारांतकरं पुंसामेकेषां परमं तपः । द्वीपायनस्य तज्जातं दीर्घसंसारकारणं ॥ १०४॥ जंतोः को वापराधोऽत्र स्वकर्मवशवर्तिनः । यत्नवानपि यज्जंतुर्मोह्यते मोहवैरिणा ॥ १०५ ॥ अपि क्रियेतापि परः कथंचिदतितिक्षणः । उपक्रियेत यद्यात्मा तथेहपरलोकयोः ॥ १०६ ॥ परदुःखविधानेन यत्स्वदुःखपरंपरा । अवश्यंभाविनी तस्मात्तितिक्षैवातिभाष्यतां ॥१०७॥ . क्रोधांधन विधर्वशेन नगरी द्वीपायनेनाखिला बालस्त्रीपशुबद्धलोककलिता द्वाराकुला द्वारिका । मासैः षडिभिरशेषिता विलसिता संत्यज्य जैनं वचो धिक्क्रोघं स्वपरापकारकरणं संसारसंवर्धनं१०८ इत्यारिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्वारावती विनाशवर्णनो नामैकषष्टितमः सर्गः । द्विषष्टितमः सर्गः। पुण्योदयात्पुरा प्राप्तामुन्नति योजनातिगां । चक्रादिरत्नसंपन्नौ बलिनौ बलकेशवौ ॥ १ ॥ पुण्यक्षयात्तु तावेव रत्नबंधुविवर्जितौ । प्राणमात्रपरीवारौ शोकभारवशीकृतौ ॥२॥ प्रस्थितौ दक्षिणामाशां जीविताशावलंबिनौ । क्षुत्पिपासापरिश्रांती यातौ यत्काक्षिणौ पथि ॥३॥ उद्दिश्य पांडवान् यातौ मथुरां दक्षिणामुभौ । हस्तवनं पुरं प्राप्तौ तत्रोद्याने हरिः स्थितः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy