SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। पंचाशत्तमः सर्गः । व्रतगुणशीलराशिरतिघोरतपो विविधं विमलमिदं यतो भवति दर्शनशुद्धियुतं । भवपारमपारमनंतं यियासु च चेन्मनः भजतु जनस्ततो जिनगुणग्रहणाभिरतः ॥५१॥ इति “अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ दुर्गोत्पत्तिवर्णनो नाम एकोनपंचाशः सर्गः । पंचाशत्तमः सर्गः। इतः केनचिद्वणिजा अनध्यैर्मणिराशिभिः । जरासिंधो नृपो दृष्टः स्वक्रयाणकहेतुना ॥१॥ दृष्टा कस्मात्समानीताः प्रोवाच मगधेश्वरः । नारायणः क्षमा शास्ति द्वारावत्याः प्रभो बली॥२॥ यादवेंद्रशिवादेव्योर्नेमिस्तीर्थकरोऽभवत् । मासान् पंचदश तत्र रत्नवृष्टिः कृता सुरैः ॥३॥ यादवानां च माहात्म्यं श्रुत्वा राजगृहाधिपः । वणिजः तार्किकेभ्यश्च जातः कोपारुणेक्षणः ॥४॥ यदुवृद्धिमिति श्रुन्वा श्रुतवृद्धिविलोचनं । प्रणम्य गणिनं भूपः श्रेणिकोऽपृच्छदित्यसौ ॥५॥ मणिराशिष्विवांभोधौ महागुणमरीचिषु । प्रख्यातेष्वखिले लोके यादवेष्वतिभूरिषु ॥६॥ अनेकाहवनियूंढदृढवीर्ये हरौ श्रुते । किमचेष्टत राजासौ भगवान्मगधाधिपः ॥७॥ १ “जननजरामृतिक्षयकरी सुखदां भुवि ता” इति ख पुस्तके पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy