SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ४०२ एकत्रिंशः सर्गः। स्वयंवरविधौ तस्याः संगताः सकलाः नृपाः । जरासंधं पुरोधाय समुद्रविजयादयः ॥ १२ ॥ तत्र चित्रमणिस्तंभधारितेषु यथाक्रमं । ते मंचेषु समासीना नृपा भूषितविग्रहाः ॥ १३ ॥ वसुदेवोऽपि तत्रैव भ्रात्रलक्षितवेषभृत् । तस्थौ पाणविकांतस्थो गृहीतपणवोऽग्रणीः ॥ १४ ॥ ततः स्वयंवरांतर्भूभागं सौभाग्यभूमिका | प्रविष्टा रोहिणी कन्या रोहिणीवातिरूपिणी ॥ १५ ॥ तदा च सर्वभूपालैबलितैरलमाकुलैः । साऽलोकि युगपन्नेत्ररचंयद्भिरिवांबुजैः ॥ १६ ॥ तद्रूपश्रवणाद् येषां परा प्रीतिरभूत्पुरा । सा रूपदर्शनात्तेषां महत्वमगमत्परं ॥ १७ ॥ श्रुतितूलतनी वृद्धो योऽनुरागतनूनपात् । दर्शनेंधनदीप्तस्य तस्य वृद्धिः किमुच्यतां ॥ १८ ॥ शंखतूर्यरवस्यांते ततो धात्री पवित्रवाक् । धृतप्रसाधनां कन्यां मान्यामाहाभितो नृपान् ॥१९॥ आतपत्रमिदं यस्य चंद्रमंडलपांडुरं । त्रिखंडजयतो लब्धं यशःस्वमिव शोभते ॥ २० ॥ यस्य चाज्ञाकराः सर्वे भचरास्तु नभश्चराः । वसुंधरेश्वरः सोऽयं जरासंधोऽवतिष्ठते ॥ २१॥ वृणीष्व रोहिणी शांतं नृपं त्वल्लाभलोभतः । रोहिणीसंगमुक्तित्वा क्षितिं चंद्रमिवागतं ॥२२॥ तस्मिन्नरागिणीं बुद्धा रोहिणी साह सात्त्विका । जरासंधसुतास्त्वते वृणीष्वैषु हृदि स्थितं ॥२३॥ धात्री चेतोविदूचे तां मथुरानाथमग्रतः । उग्रसेननृपं पश्य रोचते यदि ते सुते ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy