SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । एकचत्वारिंशः सर्गः । वासुदेवस्य पुण्येन भक्त्या तीर्थकरस्य च । सद्यो द्वारवतीं चक्रे कुबेरः परमां पुरीं || १८ || नगरी द्वाद्वशायामा नवयोजनविस्तृतिः । वज्रप्राकारवलया समुद्रपरिखावृता ||१९|| रत्नकांचननिर्माणैः प्रासादैर्बहुभूमिकैः । संधाना गगनं रेजे साऽलकेव दिवयुता ||२०|| वापी पुष्करिणी दीर्घदीर्घिकासरसीहृदैः । पद्मोत्पलादिसंछन्नैरक्षया स्वादुवारिभिः ॥२१॥ भास्वत्कल्पलतारूढकल्पवृक्षोपशोभितैः । नागवल्लीलवंगादिपूगादीनां च सद्वनैः ॥२२॥ प्रासादाः संगतास्तस्यां हेमप्राकारगोपुराः । सर्वत्र सुखदा रेजुर्विचित्रमणिकुट्टिमाः ||२३|| रथ्याभिरभिरामांतः प्रपाभिश्च सदादिभिः । राज्ञां सर्वप्रजानां च वासयोग्या व्यराजत ||२४|| सर्वरत्नमयैस्तुं गैर्जिनेंद्र भवनैरसौ । प्राकारतोरणोपेतै रेजे सोपवनैः पुरी ||२५|| 1 यादिषु मध्येsस्या दिक्षु प्रासादपंक्तयः । समुद्रविजयादीनां दशानां क्रमतो बभुः ||२६|| तन्मध्ये सर्वतोभद्रः कल्पवृक्षलतावृताः । प्रासादः केशवस्याभात्तदाष्टादशभूमिकः ||२७| अंतःपुरसुतादीनां योग्याः प्रासादमालिकाः । शौरिसौधमुपाश्रित्य परितोऽतिभासि ||२८|| स्वांतःपुरगृहालीभिः प्रासादः परिवारितः । शुशुभे बलदेवस्य वाप्युद्यानादिभूषितः ॥ २९ ॥ तत्प्रासादपुरः शक्रसभामंडपसंनिभः । श्रीसभामंडपोभासीन्मार्तंडकरखंडनः ॥ ३० ॥ Jain Education International ५०५ For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy