________________
-
पद्मपुराणम् ।
अष्टसप्ततितम पर्व। रावणस्य कथा केचिदभजन् गर्वशालिनीम् । केचित्पनगुणानूचुः शक्ति केचिच लाक्ष्मणीम् ॥४२॥ केचिद्वलममृष्यंतो मंदकंपितमस्तकाः । सुकृतस्य फलं वीराः शशंसुः स्वच्छचेतसः ॥ ४३ ॥ गृहे गृहे तदा सर्वाः क्रियाः प्राप्ताः परिक्षयम् । प्रावत कथा एव शिशूनामपि केवलाः॥४४॥ लंकायां सर्वलोकस्य वाष्पदुर्दिनकारिणः । शोकेनैव व्यलीयंत महता कुट्टिमान्यपि ॥ ४५ ॥ शेषभूतव्यपोहेन जलात्मकमिवाभवत् । नयनेभ्यः प्रवृत्तेन वारिणा भुवनं तदा ॥ ४६ ॥ हृदयेषु पदं चकुस्तापाः परमदुःसहाः। नेत्रवारिप्रवाहेभ्यो भीता इस समंततः ॥ ४७ ॥ धिधिकष्टमहो हा ही किमिदं जातमद्भुतम् । एवं निर्जग्मुरालापा जनेभ्यो वाष्पसंगताः ॥४८॥ भूमिशय्यासु मौनेन केचिनियमिताननाः । निष्कंपविग्रहास्तस्थुः पुस्तकर्मगता इव ॥ ४९ ॥ बभंजुः केचिदस्वाणि चिक्षिपुर्भूषणानि च । रमणीवदनांभोजदृष्टिद्वेषमुपागताः ॥५०॥ उष्णैनिश्वासवातूलैाधिष्ठैः कलुषैरलम् । अमुंचदिव तद्दुःखं प्रारोहान्विरलेतरान् ॥ ५१ ॥ केचित्संसारमावेभ्यो निर्वेदं परमागतः । चनैरंबरी दीक्षां मानसे जिनभाषिताम् ।। ५२ ।। अथ तस्य दिनस्यांते महासंघसमन्वितः । अप्रमेयबलः ख्यातो लंकां प्राप्तो मुनीश्वरः ॥५३॥ रावणे जीवति प्राप्तो यदि स्यात्स महामुनिः । लक्ष्मणेन समं प्रीतिर्जाता स्यातस पुमा ५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org