________________
पद्मपुराणम् ।
षट्सप्ततितमं पर्व |
अयं च बलदेवोऽसौ रथं यस्य वहत्यमी । उवृत्त केसरसटाः सिंहा भास्करभासुराः ॥ ४ ॥ नीतो मयमहादैत्यो येन वंदिग्रहं क्षणे । हलरत्नं करे यस्य भृशमेतद्विराजते ।। ५ ।। रामनाराणावेतौ तौ जातौ पुरुषोत्तमौ । पुण्यानुभावयोगेन परमप्रेमसंगतौ ॥ ६ ॥ लक्ष्मणस्य स्थितं पाणौ समालोक्य सुदर्शनम् । रक्षसामधिपश्चितायोगमंत्रमुपागतः ॥ ७ ॥ वंद्येनानंतवीर्येण दिव्यं यद्भाषितं तदा । ध्रुवं तदिदमायातं कर्मानिलसमीरितम् ॥ ८ ॥ यस्यातपत्रमालोक्य संत्रस्ता खेचराधिपाः । भंगं प्रापुर्महासैन्याः पर्यस्तच्छत्रकेतनाः ॥ ९ ॥ आकूपारपयोवासा हिमवद्विध्यसुस्तना । दासीवाज्ञाकरी यस्य त्रिखंडवसुधाभवत् ॥ १० ॥ सोऽहं भूगोचरेणाजी जेतुमालोचितः कथम् । कष्टेयं वर्त्ततेऽवस्था पश्यताद्भुतमीदृशम् ॥ ११ ॥ धिगिमां नृपतेर्लक्ष्मीं कुलटासमचेष्टिताम् । भक्तुमेकपदे पापान् त्यजंती चिरसंस्तुतान् ॥ १२ ॥ किंपाकफलवद्धोगा विपाकविरसा भृशम् | अनंतदुःखसंबंधकारिणः साधुगर्हिताः ॥ १३ ॥ भरताद्याः सधन्यास्ते पुरुषा भुवनोत्तमाः । चक्रांकं ये परिस्फीतं राज्यं कंटकवर्जितम् ॥ १४ ॥ विषमिश्रान्नवत्यक्त्वा जैनेन्द्रं व्रतमाश्रिताः । रत्नत्रयं समाराध्य प्रापुश्च परमं पदम् ।। १५ ।। मोहेन बलिनाsत्यंत संसारस्फीतिकारिणा । पराजितो वराकोऽहं धिमामीदृशचेष्टितम् ॥
१६ ॥
Jain Education International
७०
For Private & Personal Use Only
www.jainelibrary.org