________________
पदापुराणम् ।
त्रिसप्ततितम पर्व । प्रयच्छ देव मे भर्तृभिक्षामेहि प्रसन्नताम् । प्रेम्णा परेण धर्मेण कारुण्येन च संगतः ॥ ४४ ॥ वियोगनिम्नगादुःखजले संकल्पवीचिके । महाराज निमज्जती मकामुत्तम धारय ॥ ४५ ॥ कुलपद्मवनं गच्छत्प्रलयं विपुलं परम् । मा पेक्षिष्ठा महाबुद्धे बांधवव्योमभास्करः ॥ ४६ ॥ किंचिदाकर्णय स्वामिन् वचः परुषमप्यदः । क्षन्तुमर्हसि मे यस्माद्दत्तमेव त्वया पदम् ॥ ४७ ॥ अविरुद्धं स्वभावस्थं परिणामसुखावहम् । वचोऽप्रियमपि ग्राह्यं सुहृदामौषधं यथा ॥ ४८ ॥ किमर्थं संशयतुलामारूढोऽस्य तुलामिमाम् । संतापयसि कस्मात्स्वमस्माँश्च निरवग्रहः ॥४९॥ अद्यापि किमतीतं ते सैव भूमिः पुरातनी । उन्मार्गप्रस्थितं चित्तं केवलं देव वारय ॥५०॥ मनोरथः प्रवृत्तोऽयं नितान्तं तव संकटे । इन्द्रियाश्वानियच्छाऽऽशु विवेकदृढ़रश्मिभृत् ॥५१॥ उद्धैर्यत्वं गभीरत्वं परिज्ञातं च तत्कृते । गतं येन कुमार्गेण नाथ केनापि नीयसे ॥ ५२ ॥ दृष्ट्वा शरभवच्छायामात्मीया कूपवारिणि । किं प्रवृत्तोऽसि परमामापदायासदायिनि ॥ ५३ ॥ अयशः शालमुत्तुंगं भित्त्वा क्लेशकरं परम् । कदालीस्तंभनिःसारं फलं किमभिवांछसि ॥ ५४ ॥ श्लाघ्यं जलधिगंभीरं कुलं भूयो विभूषय । शिरोति कुलजातानां मुंच भूगोचरस्त्रियम् ।। ५५ ॥ क्रोिधः क्रियते स्वामिन् वीरैः स्वाप्तिप्रयोजनः । मृत्यु च मानसे कृत्वा परेषामत्मनोऽपि वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org