SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । नवोत्तरशतं पर्व | 1 ॥ जगतीह प्रविख्यातौ संज्ञया मधुकैटभौ । अजय्यौ भ्रातरौ चारु - कृतांतसमविभ्रमौ ॥ १३२ ॥ ताभ्यामियं समाक्रान्ता मही सामंतसंकटा । स्थापिता स्ववशे राजन् प्रज्ञाभ्यां शेमुषी यथा १३३ नेच्छत्याज्ञां नरेन्द्रको भीमो नाम महाबलः । शैलान्तः पुरमाश्रित्य चमरो नन्दनं यथा ॥ १३४ ॥ वीरसेनेन लेखच प्रेषितस्तस्य भूपतेः । उद्वासितानि धामानि पृथिव्यां भीमवह्निना ॥ १३५ ॥ ततो मधुः क्षणं क्रुद्धो भीमकस्योपरि द्रुतम् । ययौ सर्वबलौघेन युक्तो योधैः समंततः ॥ १३६ ॥ क्रमान्मार्गवशात्प्राप्तो न्यग्रोधनगरं च तत् । वीरसेनो नृपो यत्र प्रीतियुक्तो विवेश च चंद्राभा चंद्रकांतास्या वीरसेनस्य भामिनी । देवी निरीक्षिता तेन मधुना जगदिंदुना अनया सह संवासो वरं विंध्यवनान्तरे । चन्द्राभया विना भूतं न राज्यं सार्वभूमिकम् इति संचिन्तयत्राजा भीमं निर्जित्य संयुगे । आस्थापयद्वशे शत्रूनन्यांश्च तत्कृताशयः ॥ अयोध्यां पुनरागत्य सपत्नीकान्नराधिपान् । आहूय विपुलैर्दानैर्विसर्जयति मानितान् ॥ आहूतो वीरसेनोऽपि सह पत्न्या ययौ द्रुतम् । अयोध्या वहिरुद्याने मध्ये स्थात्सरयूतटे || देव्या सह समाहूतः प्रविष्टो भवनं मधोः । उदारदारसन्मानो वीरसेनो विसर्जितः ॥ १४३ ॥ अद्यापि मन्यते नेयमिति रुद्धा मनोहरा । चन्द्राभा नरचन्द्रेण प्रेषितान्तःपुरं ततः ॥ १४२ || १४४ ॥ Jain Education International ३५६ For Private & Personal Use Only ॥ ॥ १३७ ॥ १३८ ॥ १३९ ॥ १४० ॥ १४१ ॥ www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy