________________
पद्मपुराणम् ।
३२५
Jain Education International
निवासे परमे तत्र श्रीकीर्तिद्युतिकांतिभाक् । चूडामणिकृतालोको भुवनत्रयविश्रुतः ॥ १२० ॥ ऋद्धया परमया क्रीडन्समनुध्यानजन्मना । अहमिन्द्रसुरो यद्वदासीद्भरत भूपतिः ।। १२१ ।। नंदनादिषु देवेंद्राः सौधर्माद्याः सुसंपदः । तिष्ठत्युदक्षिमाणास्तं तदुत्कंठापरायणाः ॥ १२२ ॥ मणिमात्मके कांत मुक्ताजालविराजिते । रमते स्म विमानेऽसौ दिव्यस्त्रीनयनोत्सवः || १२३ || या श्रीचंद्रचरस्यास्य न वा वाचस्पतेरपि । संवत्सरशतेनाऽपि शक्या वक्तुं विभीषण ॥ १२४ ॥ अनर्घ्यं परमं रत्नं रहस्यमुपमोज्झितम् । त्रैलोक्यप्रकटं मूढा न विदुर्जिनशासनम् ।। १२५ ।। मुनिधर्मजिनेंद्राणां माहात्म्यमुपलभ्य सत् । मिथ्याभिमानसंमूढा धर्मं प्रति पराङ्मुखाः ।। १२६ ।। इहलोकसुखस्यार्थं शिशुर्यः कुमते रतः । तदसौ कुरुते स्वस्य ध्यायन्नपि न यद्विषः ॥ १२७॥ कर्मबंधस्य चित्रत्वान्न सर्वो बोधिभाग्जनः । केचिल्लब्ध्वाऽपि मुंचति पुनरन्यव्यपेक्षया ॥ १२८ ॥ बहुकुत्सितलोकेन गृहीते बहुदोषके । मारध्वं ? निंदिते धर्मे कुरुध्वं चेत्स्वबंधुताम् ॥ १२९ ॥ जिनशासनतोऽन्यत्र दुःखमुक्तिर्न विद्यते । तस्मादनन्यचेत स्का जिनमर्चयताऽनिशम् ॥ १३० ॥ त्रिदशत्वान्मनुष्यत्वं सुरत्वं मानुषत्वतः । एवं मनोहरप्राप्तो धनदत्तो निवेदितः ॥ १३१ ॥ वक्ष्याम्यतः समासेन वसुदत्तादिसंसृतिम् । कर्मणां चित्रतायोगात् चित्रत्वमनुविभ्रतीम् ॥ १३२ ॥
तर
For Private & Personal Use Only
www.jainelibrary.org