________________
पंद्मपुराणम् ।
व्युत्तरशतं पर्व।
ऊचतुस्तौ रिपुस्थानप्राप्तं मातः कथं नुतम् । वो गत्वा वचः क्लीबमावां ते तनयाविति ८१ वरं मरणमावाभ्यां प्राप्तं संग्राममूर्द्धनि । ननु भावितमीदृक्ष प्रवीरजननिंदितम् ।। ८२ ।। स्थितायामथ वैदेह्यां जोषं चिंतार्तचेतसि । अभिषेकादिकं कृत्यं भेजाते लवणांकुशौ ॥ ८३ ॥ श्रितमंगलसंघौ च कृतसिद्धनमस्कृती । प्रशांत्य मातरं किंचित्प्रणम्य च सुमंगलौ ॥ ८४ ॥ आरूढौ द्विरदौ चंद्रसूर्यो वा नगमस्तकम् । प्रस्थितावभिसाकेतं लंकां वा रामलक्ष्मणौ ॥८५॥ ततः सन्नाहशब्देन ज्ञात्वा निर्गमनं तयोः । क्षिप्रं योधसहस्राणि निर्जग्मुः पौंडरीकतः ॥ ८६ ॥ परस्परप्रतिस्पद्धासमुत्कर्षितचेतसाम् । सैन्यं दर्शयतां राज्ञां संघट्टः परमोऽभवत् ।। ८७ ॥ स्वैरं योजनमानं तौ महाकटकसंगतौ । पालयंतौ महीं सम्यङ्नाशस्योपशोभिताम् ॥ ८८ ॥ अग्रतः प्रसृतोदारप्रतापो परमेश्वरौ । प्रयातौ विषयन्यस्तैः पूज्यमानौ नरेश्वरैः ।। ८९ ॥ महाकुठारहस्तानां तथा कुद्दालधारिणाम् । पुंसां दशसहस्राणि संप्रयांति तदग्रतः ।। ९०॥ छिन्दन्तः पादपादीस्ते जनयंति समंततः । उच्चावचबिनिमुक्तों महीं दर्पणसन्निभाम् ॥ ९१ ॥ महिषोष्ट्रमहोक्षाद्या कोशसंभारवाहिनः । प्रयांति प्रथमं मंत्री पत्तयश्च मृदुस्वनाः ॥ ९२ ।। । ततः पादातिसंघाता युवसारंगविभ्रमाः । पश्चात्तुरंगवृंदानि कुर्वन्त्युत्तमवल्गितम् ॥ ९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org