________________
१९७
पद्मपुराणम् ।
चतुर्णवतितम पर्व। श्रीगुहं भास्कराभं च तथारिंजयसंज्ञकम् । ज्योतिःपुरं शशिच्छायं गांधारमलयं धनम् ॥ ७॥ सिंहस्थानं मनोझं च भद्रं श्रीविजयस्वनम् । कांतं यक्षपुरं रम्यं तिलकस्थानमेव च ॥८॥ परमाण्येवमादीनि पुराणि पुरुषोत्तम । परिक्रांतानि भूरीणि लक्ष्मणेन महात्मना ॥ ९॥ प्रसाद्य धरणी सर्वां रत्नैः सप्तभिरन्वितः । नारायणपदं कृत्स्नं पाप लक्ष्मणसुंदरः ॥१०॥ चक्र छत्रं धनुः शक्तिर्गदा मणिरसिस्तथा । एतानि सप्त रत्नानि परिप्राप्तानि लक्ष्मणम् ॥११॥ उवाच श्रेणिको भूपो भगवंस्त्वत्प्रसादतः । रामलक्ष्मणयोतिं माहात्म्यं विधिना मया ॥१२॥ अधुना ज्ञातुमिच्छामि लवणांकुशसंभवम् । सौमित्रिपुत्रसंभूति तथा तद्वक्तुमर्हसि ॥ १३ ॥ ततो मुनिगणस्वामी जगाद परमस्वनम् । श्रृणु वक्ष्यामि ते राजन् कथावस्तु मनीषितम् ॥१४॥ युगप्रधाननरयोः पद्मलक्ष्मणयोस्तयोः । निष्कंटकमहाराज्यजातभोगोपयुक्तयोः ॥ १५ ॥ व्रजंत्यहानि पक्षाश्च मासा वर्षयुगानि च । दोढुंदकामराज्ञातसुमहासुखसक्तयोः ॥ १६ ॥ सुरस्त्रीभिः समानानां स्त्रीणां सत्कुलजन्मनाम् । सहस्त्राण्यवबोध्यानि दश सप्त च लक्ष्मणे ॥१७॥ तासामष्टौ महादेव्यः कीर्तिश्रीरतिसनिभाः । गुणशीलकलावत्यः सौम्याः सुंदरविभ्रमाः ॥१८॥ तासां जगत्प्रसिद्धानि कीर्त्यमानानि भूपते । शृणु नामानि चारूणि यथावदनुपूर्वशः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org