________________
४
पद्मपुराणम् ।
षष्टितमं पर्व ।
न वेत्सि नृपतेः कार्य बहुकल्याणकारणम् । यदुल्लंघ्यां बुधिं भीममागतोऽसि भयोज्झितः ||३८|| न शोभना नितांतं ते प्रत्याशा जानकीं प्रति । लंकेन्द्रसंग ते कोपं त्यजाऽऽशामपि जीविते ||३९|| नरेण सर्वथा स्वस्य कर्त्तव्यं बुद्धिशालिना । रक्षणं सततं यत्नाद्दारैरपि धनैरपि ॥ ४० ॥ प्रेषितं तार्क्ष्यनाथेन यदि वाहनयुग्मकम् । यदि वा छिद्रतो बद्धा मम पुत्रसहोदराः || ४१ ॥ तथाऽपि नाम को मुष्मिन् गर्वस्तव समुद्यतः । नैतावता कृतित्वं ते मयि जीवति जायते ॥ ४२ ॥ विग्रहे कुर्वतो यत्नं न ते सीता न जीवितम् । मा भूरुभयतो भ्रष्टस्त्यज सीतानुबंधिताम् ।। ४३ ।। लब्धवर्णः समस्तेषु शास्त्रेषु परमेश्वराः । सुरेन्द्रप्रतिमा नीताः खेचरा निधनं मया ॥ ४४ ॥ पश्याष्टापदकूटाभानिमान् कैकसंसंचयान् । उपेयुषां क्षयं राज्ञां मदीयभुजवीर्यतः ।। ४५ ।। इति प्रभाषिते दूते क्रोधतो जनकात्मजः । जगाद विस्फुरद्वक्रज्योतिर्ज्वलितपुष्करः ॥ ४६ ॥ आः पाप दूत गोमायो ! वाक्यसंस्कारकूटकः । दुर्बुद्धे भाषसे व्यर्थ किमित्येवमशंकितः ॥ ४७|| सीतां प्रति कथा केयं पद्माधिक्षेषमेव वा । को नाम रावणो रक्षः पशुः कुत्सितचेष्टितः ॥ ४८ ॥ इत्युक्त्वा सायकं यावज्जग्राह जनकात्मजः । केकयीसूनुना तावन्निरुद्धो नयचक्षुषा ॥ ४९ ॥ रक्तोत्पलदलच्छाये नेत्रे जनकजन्मनः । कोपेन दुषिते जाते संध्याकारानुहारिणी ।। ५० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org