________________
पद्मपुराणम्।
अशीतितमं पर्व।
... अथाशीतितमं पर्व। ततस्ता संगमादित्यप्रबोधितमुखांबुजाम् । पाणावादाय हस्तेन समुत्तस्थौ हलायुधः ॥१॥ ऐरावतोपमं नागमारोप्य स्ववशानुगम् । आरोपयन्महातेजाः समयां कांतिमुद्वहन् ॥२॥ चलचंटाभिरामस्य नागमेघस्य पृष्ठतः । जानकीरोहिणीयुक्तः शुशुभे पद्मचंद्रमाः ॥३॥ समाहितमतिः प्रीतिं दधानोऽत्यर्थमुन्नताम् । पूर्यमाणो जनौधेन महर्या परितो वृतः॥४॥ महद्भिरनुयातेन खेचरैरनुरागिभिः । अन्वितश्चक्रहस्तेन लक्ष्मणेनोत्तमत्विषा ॥५॥ रावणस्य विमानाभं भवनं भवनातेः । पद्मनाभः परिप्राप्तः प्रविष्टश्च विचक्षणः ॥६॥ अपश्यच्च गृहस्यास्य मध्ये परमसुंदरम् । भवनं शांतिनाथस्य युक्तविस्तारतुंगतम् ॥ ७॥ हेमस्तंभसहस्रेण रचितं विकटद्युति । नानारत्नसमाकीर्णभित्तिभागं मनोरमम् ॥ ८॥ विदेहमध्यदेशस्थमंदराकारशोभितम् । क्षीरोदकेन पटलच्छायं नयनबंधनम् ॥९॥ कत्किकिणिकाजालमहाध्वजविराजितम् । मनोज्ञरूपसंकीर्णमशक्यपरिवर्णनम् ॥ १० ॥ उत्तीर्य नागतो मत्तनागेन्द्रसमविक्रमः । प्रसन्ननयनः श्रीमान् तद्विवेश सहांगनः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org