SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिपञ्चाशत्तमं पर्व | " histyद्दामतयोद्यानं प्रविष्टो दुष्टखेचरः । स क्षिप्रं मार्यतामेष गृह्यतां दुर्विनीतकः ॥ १८५ ॥ धावध्वसको कोऽसौ सोयमेव इतः कुतः । कस्य कस्तादृशः क्वेति किंकरध्वनिरुद्गतः ॥ १८६॥ ततः कार्मुककान् दृष्ट्ा शक्तिकान् गदिकांश्च तान् । खड्डिकान् कौंतिकान् वद्धसंघातानाय तो बहून् किंचित्संभ्रान्तधीर्वातिर्मृगाधिपपराक्रमः । रत्नशाखामृगच्छायास मुद्दीपितपुष्करः || १८८ ॥ अवरोहंस्ततो देशात्तैरदृश्यत किंकरैः । आकुलत्वविनिर्मुक्तः प्रलंबं विभ्रदंबरम् ॥ १८९ ॥ ततस्तमुद्यदादित्यमंडलं प्रतिमत्विषम् । प्रदष्टाधरमालोक्य विशीर्णाः किंकरा गणाः ॥ १९० ॥ ततः किलापरैः क्रूरैः प्रक्षातैः किंकराधिपैः । तत्किकरबलं गच्छदितश्वेतश्च धारितम् ।। १९१ ॥ शक्तितोमरचक्रासिगदाकार्मुकपाणयः । सर्वतो वावृणनेतं मुखराः किंकरास्ततः ।। १९२ ॥ मुमुचुश्च घनं शस्त्रं ज्येष्ठवाता यथावुशम् | अदृष्ट भास्करोद्योताः परं संघातवर्त्तिनः ॥ १९३ ॥ उत्पाट्य वायुपुत्रोऽपि निःशस्त्रो धीरपुंगवः । संघातं तुंगवृक्षाणां शिलानां वारमक्षिपत् ॥ १९४ ॥ भीमभोगिमहद्भोगभास्वद्भुजजवेरतैः । पादपादिभिराहनत्कालमेघ इवोन्नतः ।। १९५ ।। अश्वस्थान् शालन्यग्रोधान्नन्दिचंपक केसरान्। नीपाशोककदंबांश्च पुन्नागानर्जुनान्धवान् ॥ १९६ ॥ आम्रानाम्रातकांल्लोधान शृणु राजन् (तृणराजानू ) स्थवीयसः । Jain Education International ३५५ For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy