________________
पद्मपुराणम् ।
४०९
सतत पर्व । एतत्कुलक्रमायाता भूत्यास्म्यस्याः सुचेतसः । विश्रंभपदतां नीता प्रसादपरयानया ॥ ३४१॥ सेयमद्य प्रसूता नु वने नानोपसर्गके । न जानामि कथं साध्वी भविष्यति सुखाश्रया ॥ ३४२ ॥ निवेदितमिदं साधोत्तमस्याः पुलाकतः । सकलं तु न शक्नोमि कर्तुं दुःखनिवेदनं ।। ३४३ ॥ अथैतदीयसंतापविलीनस्नेहपूरितात् । अमांतीव निरैदस्य हृदयात्साधु भारती ॥ ३४४ ॥ स्वस्रीया मम साध्वि त्वं चिरकालवियोगतः । प्रायेण नाभिजानामि रूपांतरपरिग्रहात्॥३४५।। पिता विचित्रभानुमें माता सुंदरमालिनी । नामतः प्रतिसूर्योहं द्वीपे हनूरुहाभिधे ।। ३४६ ॥ इत्युक्त्वा वस्तु यद्वृत्तं कौमारे सकलं स तत् । अंजनायै पतद्वाष्पनयनस्तमवादयत् ॥ ३४७ ॥ निख़तमातुलाथासौ पूर्ववृत्तनिवेदनात् । तस्य कंठं समारुह्य रुरोद चिरमूर्द्धनि ॥ ३४८ ॥ तस्यास्तत्सकलं दुःखं वाष्पेण सहनिर्गतं । स्वजनस्य हि संप्राप्तावैषैव जगतः स्थितिः ॥३४९॥ तयोः स्रेह भरेणैवं कुर्वतोरथ रोदनं । वसंतमालयाप्युच्चैरुदितं पार्श्वया तया ॥ ३५० ॥ रुदत्सु तेषु कारण्यादरुदंस्तद्योषितः । कृतरोदास्वथैतासु रुरुदूरुरुयोषितः ॥ ३५१ ॥ गुहावदनमुक्तेन प्रतिनादेन भूयसा । पर्वतोपि रुषोदेवं संततैनिझराश्रुभिः ॥ ३५२ ॥ ततः शब्दमयं सर्व तद्भभूव तदा वनं । शकुंतैरपि कारुण्यादाकुलैः कृतनिस्वनं ॥ ३५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org