________________
पद्मपुराणम् ।
३८३
सप्तदर्श पर्व ।
ततस्तां लक्षणैरेभिः श्वश्रूर्विज्ञाय गर्भिणीं । पप्रच्छ तव केनेदं कृतं कर्मेत्यसूयिका ॥ ४ ॥ सांजलिः सा प्रणम्योचे निखिलं पूर्वचेष्टितं । प्रतिषिद्धापि कांतेन गतिमन्यामविंदती ॥ ५ ॥ ततः केतुमती क्रुद्धा जगादेति सुनिष्ठुरं । वाणीभिग्रविदेहाभिस्ताडयंतीव यष्टिभिः ॥ ६ ॥ यो न त्वत्सदृशं पापे दृष्टुमाकारमिच्छति । शब्दं वा श्रवणे कर्तुमतिद्वेषपरायणः ॥ ७ ॥ स कथं स्वजनापृच्छां कृत्वा गेहाद्विनिर्गतः । भवत्यां संगमं धीरः कुर्वीत विगतत्र ॥ ८ ॥ धिक् त्वां पापां शशांकांशुशुभ्रसंतान दूषिणीं । आचरंतीं क्रियामेतां लोकद्वितयनिंदितां ॥ ९ ॥ सखी वसंतमाला ते साध्वीमेतां मतिं ददौ । वेश्या वा कुलटानां किं कुर्वति परिचारिका ॥ १०॥ दर्शितेऽपि तदा तस्मिन्कटके क्रूरमानसा । प्रतीयाय न सा वकोपात्यंतमुग्रवाक् ॥ ११ ॥ इत्युक्त्वा क्रूरनामानं क्रूर माहूय किंकरं । कृतप्रणाममित्यूचे को पारुणनिरीक्षणा ॥ १२ ॥ अक्रूराशु नत्वेमां महेंद्रपुरगोचरं । यानेन सहितां सख्या निक्षिप्यैहि निरंतरं ॥ १३ ॥ ततस्तद्वचनादेतां पृथुवेपथुविग्रहां । महापवननिर्धूतां लतामिव निराश्रयां ॥ १४ ॥ ध्यायंतीमाकुलं भूरिदुःखमागामि निष्प्रभां । विलीनमिव विभ्राणां हृदयं दुःखवह्निना ॥ १५ ॥ भीत्या निरुत्तरीभूतां सखीनिहितलोचनां । निदंतीमशुभं कर्म मनसा पुनरुद्धतं ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org