________________
पद्मपुराणम् ।
षोडशं पर्व । स पल्लवमुखे पूर्णकुंभे निहितलोचनः । क्रामन् भवनादेष सहसैक्षत गहिनीं ॥ ८३ ॥ द्वारस्तंभनिषण्णांगां वाष्पस्थगितलोचनां । नितंबनिहितभ्रंसिनिरादरचलद्भुजां ॥ ८४ ॥ तांबूलरागनिर्मुक्तधूसरद्विजवाससं । तस्मिन्नेव समुत्कीणां मलिनां सालभंजिकां ॥ ८५ ।। विद्युतीव ततो दृष्टिं तस्यामापतितां क्षणात् । संहृत्य कुपितोऽवादीदिति प्रह्लादनंदनः ॥८६॥ अमुष्मादवसपांशु देशादपि दुरीक्षणे । उल्कामिव समर्थोहं भवतीं न निरीक्षितुं ॥ ८७ ॥ अहो कुलांगनायास्ते प्रगल्भत्वमिदं परं । यत्पुरोनिष्ट्रयमाणापि तिष्ठसि पयोजिभते ॥ ८८ ॥ ततोत्यंतमपि क्रूरं तद्वाक्यं भर्तृभक्तितः । तृषितेव चिराल्लब्धममृतं मनसा पपौ ॥ ८९ ॥ जगाद चांजलिं कृत्वा तत्पादगतलोचना । संस्खलंती मुहुवाचमुद्गिरंती प्रयत्नतः ॥ ९० ॥ तिष्ठतापि त्वया नाथ भुवनेत्र विवर्जिता । त्वत्सामीप्यकृताश्वासा जीवितास्म्यतिकृच्छ्रतः ९१ जीविष्याम्यधुना स्वामिन्कथं दूरंगते त्वयि । त्वत्सद्वचोमृतास्वादस्मरणेन विनातुरा ॥ ९२ ॥ कृतं छेकगणस्यापि त्वया संभाषणं प्रभो । यियासुना परं देशमतिस्नेहार्द्रचेतसा ॥९३॥ अनन्यगतचित्ताहं त्वदसंगमदुःखिता । कथं नान्यसुखेनापि त्वया संभाषिता विभो ॥ ९४ ॥ त्यक्ताया मे त्वया नाथ समस्तेप्यत्र विष्टपे । विद्यते शरणं नान्यदथवा मरणं भवेत् ॥ ९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org