________________
पद्मपुराणम् ।
एकादशं पर्व । अवश्यमेवमेतेन भवितव्यं यतस्ततः । कुर्वेतेषां दयां क्षुद्रा जीवंतु प्रियजीविताः ॥ २८० ॥ ज्ञानं किंन तथोत्पन्नाः कुपाखंडा यथा नृप । शृण्वस्यामवसर्पिण्यां तुरीयसमयागमे ॥ २८१ ।। ऋषभो नाम विख्यातो बभूव त्रिजगतोन्नतः । कृत्वा कृतयुगं येन कलानां कल्पितं शतं ॥२८२॥ जातमात्रश्च यो देवैर्नीत्वा मंदिरमस्तकं । क्षीरोदवारिणा तुष्टैरभिषिक्तो महाद्युतिः ॥ २८३ ॥ ऋषभस्य विभोर्दिव्यं चरितं पापनोदनं । स्थितं लोकत्रयं व्याप्य पुराणां न श्रुतं त्वया ॥२८४॥ भता बभूव कौमारः स भुवो भूतवत्सलः । गुणांस्तस्य क्षमो वक्तुं न सुरेंद्रोऽपि विस्तरात्२८५ उद्वहंतीं स्तनो तुंगी विंध्यापालेय पतेती । आर्यदेशमुखीरम्यां नगरी वलयेयुतां ॥ २८६ ॥ अब्धिकांचीगुणां नीलसत्काननशिरोरुहां । नानारत्नकृतच्छायामत्यंतप्रवणां सती ।। २८७ ॥ यः परित्यज्यभूभार्या मुमुक्षुर्भवसंकटं । प्रतिपेदे विशुद्धात्मा श्रामण्यं जगते हितं ॥ २८८ ॥ स्थितो वर्षसहस्रं च वज्रांगो स्थिरयोगभूत । प्रलंबितमहाबाहुः प्राप्तभूमिजटाचयः ॥ २८९ ॥ स्वामिनश्चानुरागेण गृहीतोग्रपरीषहैः । कच्छाद्यैर्नग्नतामुक्ता वल्कलादि समाश्रितं ॥ २९० ॥ अज्ञातपरमार्थस्तैः क्षुधादिपरिपीड़ितैः । फलाद्याहारसंतुष्टैः प्रणीतास्तापसादयः ॥ २९१ ॥ ऋषभस्य तु संजातं केवलं सर्वभासनं । महान्यग्रोधवृक्षस्य स्थितस्यासन्नगोचरे ॥ २९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org