________________
पंद्मपुराणम् ।
३५७
एकादशं पर्व । त्यक्त्वा धर्मधिया बंधन संसारोत्तरणाशया । स्वयं खलीकृतोऽरण्ये किमात्मा तापस त्वया१२४ भद्र ? प्रव्रजितो जातः कस्ते भेदो गृहस्थतः । चारित्रं प्रतियातस्य केवलं वेषमन्यथा ॥१२५॥ यथाहि छर्दितं नान्नं भुज्यते मानुषैः पुनः । तथा त्यक्तेषु कामेषु न कुर्वति मतिं बुधाः ॥१२६॥ त्यक्त्वा लिंगी पुनः पापो योषितं यो निषेवते । सुभीमायामरण्यान्यां वृकतां स समश्नुते १२७ सर्वारंभस्थितः कुर्वन् न ब्रह्ममदनिर्भरः। दीक्षितोऽस्मीति यो वेत्ति स्वं नितांतं स मोहवान्१२८ ईर्ष्यामन्मथदग्धस्य दुष्टदृष्टेर्दुरात्मनः । आरंभे वर्तमानस्य प्रव्रज्या वद कीदृशी? ॥ १२९ ॥ कुदृष्टया गर्वितो लिंगी विषयास्रवमानसः । ब्रुवन्नहं तपस्वीति मिथ्यावादी कथं व्रती ॥१३०॥ सुखासनविहारः सन् सदा कशिपुसक्तधीः । सिद्धमन्यो विमूढात्मा जनोयं स्वस्य वंचकः १३१ दह्यमाने यथागारे कथंचिदपि निःसृतः । तत्रैव पुनरात्मानं प्रक्षिपेन् मूढमानसः ॥ १३२ ॥ यथा च विवरं प्राप्य निष्क्रांतः पंजरात्खगः । निवृत्य प्रविशेद्भूपस्तत्रैव ज्ञानचोदितः ॥१३३॥ तथा प्रव्रजितो भूत्वा यो यातींद्रियवश्यतां । निंदितः स भवेल्लोके न च स्वार्थ समश्नुते ॥१३४॥ ध्येयमेकाग्रचित्तेन सर्वग्रंथविवर्जिना । मुनिना ध्यायते तत्त्वं सारंभैन भवद्विधैः ॥ १३५ ॥ प्राणिनो ग्रंथसंगेन रागद्वेषसमुद्भवः । रागात्संजायते कामो द्वेषाज्जंतुविनाशनं ॥ १३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org