________________
पद्मपुराणम् ।
२४८
एकादशं पर्व। उदीचिं प्रस्थितः काष्ठां प्रतापं दुस्सहं किरन् । यथोत्तरायणे भानुः पुण्यकर्मानुभावतः ॥७॥ बलवांश्च श्रुतस्तेन राजा राजपुराधिपः । अभिमानं परं विभ्रत्परप्रणतिवर्जितः ॥ ८॥ जन्मनः प्रभृतिदुश्चेता लौकिकोन्मार्गमोहितः । प्रविष्टः प्राणिविध्वंसं यज्ञदीक्षाख्यपातकं ॥९॥ अथ यज्ञध्वनिं श्रुत्वा श्रेणिको गणपालिनं । इत्यपृच्छद्विभो ! तावदास्तां रावणकीर्तनं ॥१०॥ उत्पत्तिं भगवन्नस्य यज्ञस्येच्छामि वेदितुं । प्रवृत्तो दारुणो यस्मिन् जना जंतुविनाशने ॥११॥ उवाच च गणाधीशः शृणु श्रेणिक ! शोभनं । भवता पृष्टमेतेन बहवो मोहिता जनाः ॥१२॥ विनीतायां महानासीदिक्ष्वाकुकुलभूषणः । ययातिनोम राजास्य सुरकांतति भामिनी ॥ १३ ॥ वसुर्नामाभवत्तस्य गुरोर्योग्यः सचार्पितः । नाना क्षीरकदंबस्य यस्य स्वस्तिमती प्रिया ॥१४॥ अन्यदारण्यकं शास्त्रं सर्वशास्त्रविशारदं । अध्यापयत्यसौ शिष्यानारदादीन्वनांतरे ॥ १५॥ अथ चारणसाधूनां प्रथितानां विहायसा । एकेन यतिना प्रोक्तमेवं कारुण्यकीरणा ।। १६ ॥ चतुर्णा प्राणिनामेषामेको नरकमागिति । श्रुत्वा क्षीरकदंबस्तद्वचो भीतोऽभवभृशं ॥ १७॥ ततोऽतेवासिनस्तेन प्रेषिताः स्वस्वमालयं । ययुस्तुष्टा यथा वत्सा मुक्ता दामकबंधनान् ॥१८॥ स्वस्तिमत्यथ पप्रच्छ पुत्रं पर्वतसंज्ञकं । क तवासौ पिता पुत्र ? येनैकाकी त्वमागतः ॥ १९ ॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International