________________
पद्मपुराणम् ।
२३६
दशमं पर्व। त्रिपुरा मलयो हेमपालकोलवसुंधराः । नानायानसमारूढा नानाशस्त्रविराजिताः ॥ ३७ ॥ एवमाद्यैः खगाधीशैरापुपूरे स निर्गतः । विद्युदिंद्रधनुर्युक्तैर्घनौधैः श्रावणो यथा ॥ ३८ ॥ सहस्रमधिक जातं विहायस्तलचारिणां । अक्षौहिणीप्रमाणानां कैलाशोल्लासकारिणां ॥ ३९ ॥ अमराणां सहस्रेण प्रत्येकं कृतपालनैः । रत्नैरनुगतो नानागुणसंघातधारिभिः ॥ ४०॥ चंद्ररश्मिचयाकारैश्चामरैरुपवीजितः । समुच्छ्रितशितच्छत्रश्चारुरूपमहाभुजः ॥४१॥ पुष्पकाग्रं समारूढो मंदरस्थिरविद्युतिः । तिग्मांशुमालिनो मार्गश्छादयन् यानसंपदा ॥ ४२ ॥ इंद्रध्वंसनमाधाय मानसे पुरुविक्रमः । प्रयाणकैरभिप्रेतैः प्रयातिस्म दशाननः ॥४३॥ नानारत्नकृतच्छायं चामरोर्मिसमाकुलं । तइंडमानसंघातं छत्रावर्तशताचितं ॥ ४४ ॥ वाजिमातंगपादातग्रहसंघातभीषणं । उल्लसच्छस्नकल्लोलमकरोत्स खमर्णवं ॥ ४५ ॥ तुंगैवर्हिणपिच्छौघशिरोभिर्भासुरैर्ध्वजैः । वढरिव कचिद्व्याप्तं सुत्रामोपायनैनमः ॥ ४६ ॥ नानारत्नकृतोद्योतैस्तुंगशृंगविराजितैः । संचरन्सुरलोकात्तं विमाननिवहैः कचित् ॥ ४७ ॥ पृथ्व्या किं मगधाधीश गिरात्र परिकीर्णया । मन्ये तत्सैन्यमालोक्य विभियुस्त्रिदशा अपि॥४८॥ इंद्रजिन्मेघवाहश्च कुंभकर्णो विभीषणः । खरदूषणनामा च निकुंभः कुंभसंज्ञकः ।। ४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org