________________
पद्मपुराणम् ।
રંટ
नवमं पर्व । अहो निश्चयसंपन्नं तपसस्ते महलं । भगवन् ! येन शक्तोऽसि त्रैलोक्यं कर्तुमन्यथा ॥१६१॥ इंद्राणामपि सामर्थ्यमीदृशं नाथ नेक्ष्यते । यादृक् तपःसमृद्धानां मुनीनामल्पयत्नजं ॥ १६२ ॥ अहो गुणा अहो रूपमहोकांतिरहो बलं । अहो दीप्तिरहो धैर्यमहो शीलमहो तपः ॥ १६३ ॥ त्रैलोक्यादथ निश्शेष वस्त्वाहृत्य मनोहरं । कर्मभिः सुकृताधारं शरीरं तव निर्मितं ।। १६४ ॥ सामर्थेनामुना युक्तस्त्यक्तवानसि यत्क्षितिं । इदमत्यद्भुतं कर्म कृतं सुपुरुष त्वया ॥ १६५ ॥ एवंविधस्य ते कर्तुं यदसाधु मयेप्सितं । तदशक्तस्य संजातं पापबंधाय केवलं ॥ १६६ ॥ धिक् शरीरमिदं चेतो वचश्च मम पापिनः । वृत्तावभिमुखं जातं यदसत्यामलं पुरा ॥ १६७॥ भवादृशां नृरत्नानां मद्विधानां च दुर्विशां । अंतरं विगतद्वेष ! मेरुसर्षपयोरिव ॥ १६८॥ मह्यं विपद्यमानाय दत्ताः प्राणास्त्वया मुने । अपकारिणि यस्येयं मतिस्तस्य किमुच्यतां ॥१६९॥ श्रृणोमि वेद्मि पश्यामि संसारं दुःखभावकं । पापस्तथापि निर्वेदं विषयेम्यो न याम्यहं ॥१७०॥ पुण्यवंतो महासत्वा मुक्तिलक्ष्मीसमीपगाः। तारुण्ये विषयान् त्यक्त्वा स्थिता ये मुक्तिवर्मनि।।१७१ इति स्तुत्वा मुनि भूयः प्रणम्य त्रिःप्रदक्षिणं । नितांतं स्वं च निंदित्वा शूत्कारमुखराननः १७२ उपकंठं मुनेश्चैत्यभवनं त्रपयान्वितः । विरक्तो विषयासंगे प्रविष्टः कैकसीसुतः ॥ १७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org