________________
अष्टमं पर्व ।
एवमस्तु प्रिया यूयं माभैषीति स सांत्वनं । कुरुते यावदेतासां तावद्बलमुपागतं ।। १२९ ।। ततो विमानमारुह्य क्षणाद्विद्याविनिर्मितं । खमारुह्य दशग्रीवो दंतदष्टरदच्छदः ।। १३० ।। त एवावयवास्तस्य प्राप्य युद्धमहोत्सवं । दुःखेन मानमाकाशे प्राप्ता रोमांचकर्कशाः ।। १३१ ॥ तस्योपरि ततो योधाश्चिक्षिपुः शस्त्रसंहतीः । धारा इव घनस्थूलाः पर्वतस्य घनाघनाः ॥ १३२ ॥ ततोऽसौ शस्त्रसंघातं काभिविद्विन्यवारयत् । काभिचित्तु रिपुवातं शिलाभिर्भयमानयत् ॥१३३॥ वराकैर्निहतैरेभिः खचरैः किं ममेत्यसौ । चितयित्वा प्रधानां स्त्रीं तां चक्रे नेत्रगोचरां ॥ १३४ ॥ तामसेन ततोऽस्त्रेण मोहयित्वा गतक्रियाः । नागपाशैस्त्रयोऽप्येते बद्धा तासामुपाहृताः ।। १३५ ।। मोचितास्ते ततस्ताभिः पूजां च परिलंभिताः । शूरस्वजनसंप्राप्ते संमदं च समागताः ॥ १३६ ॥ ततः पाणिग्रहश्चक्रे तस्य तासां च तैः पुनः । दिवसानां त्र्यं विद्याजनितश्च महोत्सवः ॥ १३७ ॥ ताश्चानुमतास्तेन यथास्वं निलयानमी । मंदोदरीगुणाकृष्टः स च यातः स्वयंप्रभं ॥ १३८ ॥ ततस्तं परया त्या युक्तं दृष्ट्वा सयोषितं । बांधवाः परमं हर्ष जग्मुर्विस्तारितेक्षणाः ॥ १३९ ॥ दूरादेव च तं दृष्ट्रा भानुकर्णविभीषणौ । अभिगत्या विनिष्क्रांतौ सुहृदोऽन्ये च बांधवाः ॥ १४० ॥ वेष्टिताश्च प्रविष्टास्ते स्वयंप्रभपुरोत्तमं । रेमे च स्वेच्छया तेन प्राप्नुवन् सुखमुत्तमं ॥ १४१ ॥
पद्मपुराणम् ।
Jain Education International
१८४
For Private & Personal Use Only
www.jainelibrary.org