________________
पद्मपुराणम् ।
१०५
षष्ठं पर्व । पवनाकंपनाद्यस्मिन् सीत्कारश्रोत्रहारिभिः । देवोर्विपुलैटैिः प्रदेशाः पवनोज्झिताः ॥ ८२ ॥ रत्नकांचनविस्तीणेशिलासंघातशोभनः । मध्ये तस्य महानस्ति किष्कुर्नाम महीधरः ॥८३॥ त्रिकूटेनेव तेनासौ श्रृंगबाहुभिरायतेः । आलिंगता दिशः कांता श्रियमारोपितः परां ॥८४ ॥ आनंदवचनादेवमानंदं परमं गतः । श्रीकंठः कीर्तिधवलं प्राहैवमिति भारती ॥ ८५ ॥ ततश्चैत्रस्य दिवसे प्रथमे मंगलाचिंते । ययौ सपरिवारौसौ द्वीपं वानरलांछितं ॥ ८६ ॥ पश्यन्नीलमणिच्छायं गतं नभ इव क्षितिं । महाग्राहकृतापं समुद्रं विस्मयाकुलः ॥८७॥ ततश्च तं वरद्वीपं प्राप्तस्वर्गमिवापरं । व्याहस्तमिवात्युच्चैः स्वागतं निर्झरस्वनैः ॥ ८८॥ निर्झराणामतिस्थूलैः शीकरैर्योमगामिभिः । हसंतमिव तोषेण श्रीकंठागमजन्मना ॥८९ ॥ विचित्रमणिसंभूतप्रभाजालेन चारुणा । इच्छिता इव संघातास्तोरणानां समुन्नताः ॥९॥ ततस्तमवतीर्णोसौ द्वीपमाश्चर्यसंकुलं । चिक्षिपन् दिक्षु सर्वासु दृष्टिं नीलोत्पलद्युतिं ॥ ९१ ॥ खर्जूरामलकीनीपकपित्थागुरुचंदनैः । प्लक्षार्जुनकदंवाम्रप्रियालकदलीधवैः ॥ ९२ ॥ दाडिमीपूगकंकोललवंगवकुलैस्तथा । रम्यैरन्यैश्च विविधैः पादपैरुपशोभितं ॥ ९३ ॥ मणिवृक्षा इवोद्भिद्य क्षितिं ते तत्र निःसृताः । स्वस्मिन्निपतितां दृष्टिं नेतुमन्यत्र नो ददुः॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org