________________
१००
पद्मपुराणम् ।
षष्ठं पर्व । आलोकनमथो चक्रे ततोऽपश्यत्स कन्यकां । गुरुणाधिष्ठितां कांता संगीतकगृहांगणे ॥ १७॥ तस्या रूपसमुद्रेऽसौ निमग्नं मानसं द्रुतं । न शशाक समुद्धर्तुं धतु नांगानि च प्रभुः ॥ १८ ॥ स्थितश्चैषोतिकव्योम्नि तया नीलोत्पलाभया । वध्वेव पीवरस्कंधो दृष्टयाकृष्टो मनोमुषा ॥१९॥ ततो दर्शनमन्योन्यं तयोर्माधुर्यपेशलं । चकार वरणं प्रेमबद्धभावस्य सूचनं ॥ २० ॥ ततस्तामिगिताभिज्ञो भुजपंजरमध्यगां । कृत्वा नभस्तले यातः स्पर्धामीलितलोचनः ॥२१॥ परिवर्गस्ततस्तस्याः प्रलापमुखरीकृतः । पुष्पोत्तराय कन्यायाः श्रीकंठेन हृतिं जगौ ॥ २२ ।। सर्वोद्योगेन संनह्य ततः पुष्पोत्तरो रुषा । तस्यानुपदवीं यातो दंतदष्टरदच्छदः ॥ २३ ॥ तेनानुधावमानेन व्रजता सुनभस्तले । शशीव घनवृंदन श्रीकंठःशुशुभेधिकं ॥२४॥ आयांतं पृष्टतो दृष्टा श्राकंठस्तं महाबलं । त्वरितं प्रस्थितो लंकां नीतिशास्त्रविशारदः॥ २५ ॥ तत्र स्वसुःपतिं गत्वा शरणं स समाश्रयत् । कालप्राप्तं नयं संतो युजाना यांति तुंगतां ॥२६॥ सोदरो मम कांताया इति सस्नेहनिर्भरं । संभ्रमेण परिष्वज्य तं चकाराप्तपूजनं ॥२७॥ तयोः कुशलतांतप्रश्नो यावत्प्रवर्तते । तावत्पुष्पोत्तरः प्राप्तो महाबलसमन्वितः ।। २८ ॥ कीर्तिशुक्लस्ततोऽपश्यद्गगनं सर्वतश्चितं । विद्याधरसमूहेन प्रदीप्तपुरुतेजसा ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org