SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५२६ व्याश्रयमहाकाव्ये [कुमारपालः] लोहितको मणिपटौ । अत्र “लोहितान्मणौ” [१७] इति कः ॥ लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिनिका मणी ॥ रक्त । लोहितको मणिपटौ ॥ अनित्यवर्णे । क्रुधा लोहिनिका दृक् । अत्र "रक्त०" [१८] इत्यादिना कः ॥ स्वार्थे रक्ते । कालकांशुक । अनित्यवर्णे । वैलक्ष्येण कालकं मुखम् । अत्र "कालात्" [ १९ ] इति स्वार्थे कः ॥ रोमप्रावरणं वोढा शीतके नूष्णकेप्य॒तौ । विहानकालूनकाङ्गवियातकपशुव॑यम् ॥ ७१ ॥ ७१. अयमनुवरो यथा शीर्तक ऋतौ शीतकाले रोमप्रावरणं शीतत्राणाय वहति तथोष्णकेप्यतावुष्णकालेपि रोमाण्यङ्गलोमान्येवातिसान्द्रत्वेनाङ्गाच्छादकत्वात्प्रावरणमाच्छादनं तद्वोढा वहति । विगतं हानं गमनं यस्य स विहानः स एव विहानकस्तथा लून एव लूनको लूनरोमा पशुर्न तथालूनक: सरोमा पशुस्तस्येवाङ्गमस्यालूनकाङ्गो लोमशाङ्गस्तथा वियात एव वियातकश्च धृष्टो यः पशुरुरणः स यथा रोमाण्येव प्रावरणं शीतके नूष्णकेप्य॒तौ वहति । रोमशत्वादेवमुपहासः ॥ शीतके । उष्णक ऋतौ । अत्र “शीत." [२०] इत्यादिना स्वार्थे कः ॥ अलूनक । वियातक । इत्यत्र “लून०" [२१] इत्यादिना स्वार्थे कः ॥ विहानशब्दादपीच्छन्त्येके । विहानक ॥ १बी णं बोढा. १ सी हितिका. २ बी रक्त । लो'. सी रक्तौ । लो'. ३ ए हितिका. ४ ए स्वार्थो र'. ५ ए °शुका। अ. ६ सीतकोले. ७ ए वणं. ८ सी °शुस्त. ९ ए ङ्गो लाम. १० बी मसाङ्ग. ११ बी शुरूर'. सी 'शुरूरुणः. १२ बी मसत्वा'. १३ बी नकः । वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy