SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४३४ घ्याश्रयमहाकाव्ये [कुमारपालः २५. हे धरणिधव राजन हे नयाब्धेः पारीण नीतिशास्त्रसागरपारगामिन्नत एव हे अनयसरिदवारीणानावारनद्या अर्वाग्भागगामिन्यायनिष्ठ ते तव गुरवः पूर्वजा अरिविजयादिह जगति पारावारीणमब्धिगामि यशो जगृहुः । किं कृत्वा। चुलुकैः सह सदा संधाय । कैः कैः कृत्वा । यथाकामीना यथाकामं गच्छन्तस्तथोर्जन्तो बलिष्ठा ये करिणस्तैस्तथानुकामीना अनुकामं यथेच्छं गच्छन्तो ये तुरगास्तैस्तथात्यन्तीना अत्यन्तं गामिनो य उष्ट्रास्तैश्च हस्तितुरगोष्ट्रदानेनेत्यर्थः । एतेन चुलुकैः सह संधाने तेषामरिविजयोत्थं यशः फलमुक्तम् ।। शिखरिणी छन्दः॥ अवारपारीणमुदन्वतस्तद्यशो निजानां छुपथाध्वनीनम् । हारि त्वया मानुगवीनबुद्ध्या भैमि नयाध्वन्यममुं विराध्य ॥२६॥ २६. हे राजन्निजानी पूर्वजानां तचुलुकैः संधानेनारिविजयोत्थं यशस्त्वया मा हारि मापनायि । कीदृशम् । उदन्वतोब्धेरवारपारीणमाग्भागपरभागयोर्गामुकं तथा छुपथाध्वनीनं स्वर्गमार्गे पथिकतुल्यं स्वर्गगामीत्यर्थः । किं कृत्वा । नयाध्वन्यं न्यायमार्गपथिकममुं भैमि विराध्य विरोध्य । कया कृत्वा । अनुगवीनबुद्ध्या गवां पश्चादनुगु तदलंगाम्यनुगवीनो गोपालस्तस्य या बुद्धिस्तयानुचितयुद्धविषयया मूर्खबुद्ध्येत्यर्थः ॥ यथाकामीन । अनुकामीन । अत्यन्तीन । इत्यत्र "यथाकाम" [ १०० ] इत्यादिनेनः ॥ पारावारीणम् । पारीण । अवारीण । अवारपारीणम् । इत्यत्र "पारावारं०" [ १०१ ] इत्यादिनेनः ॥ १ सी धर रा . २ सी ह सं. ३ सी त्यन्त गा. ४ बी धानते. सी धानात्तेपा. ५ सी न्दः । आवा. ६ सीनां तचूलैः सं. ७ सी °रि नापायि. ८ बी मार्गप. ९सी °ध्य क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy