________________
[ है. ६.४.७५.]
सप्तदशः सर्गः ।
३५९
क्ष्मां नावयज्ञिकी पाकयज्ञिकी च द्विजा यथा ।
अहतेच्छा आतरिकैर्नार्योगाहन्त निम्नगाम् ॥ ४३ ॥ ४३. नार्यो निम्नगामगाहन्त व्यलोडयन् । कीदृश्यः सत्यः । आतरिकैरातरे नद्यादितीर्थे नियुक्तैनरैरहतेच्छा अयं नदीप्रवेशोवगाह्य इत्यस्खलिताभिलाषाः । यथा द्विजा ऋत्विजोहतेच्छाः सन्तो यागक्रियाभिः क्ष्मामवगाहन्ते । किंभूताम् । नवयज्ञा नवैरन्नैः साध्या योगा अस्यां वर्तन्ते तां नावयज्ञिकी तथा पाकयज्ञः पाकेन हविर्विशेषेण साध्यो यज्ञोस्यां तां पाकयज्ञिकीम् ।। नावयज्ञिकीम् । पाकयज्ञिकीम् । अत्र “नवयज्ञ." [७३] इत्यादिनेकण् ॥ आतरिकैः । अत्र “तत्र०" [ ७४ ] इत्यादिनेकण् ॥
सरायुधागारिकाणां वारिघातैः स्मरायुधैः ।
युवानो मुमुहुस्तासां सांध्यिकाशुचिका इवै ॥ ४४ ॥ ४४. साध्यिकाशुचिका इव यथा संध्यायामध्यायिनोशुचौ देशेध्यायिनश्चाकालादेशाध्ययनोत्थेन विनेन मुह्यन्ति तथा तासां स्त्रीणां वारिघातैः कृत्वा युवानो मुमुहुर्मूर्छिताः। यतः स्मरायुधैर्विशेष्यार्थानुकूल्येनात्र स्मरायुधशब्देनोपचारात्स्मरायुधधाता उच्यन्ते । तेन कामशरप्रहारतुल्यैः । कीदृशीनाम् । स्मरायुधागारिकाणां स्मरस्यायुधानि जलक्रीडास्तेषामगारं गृहं नदी तत्र नियुक्तानाम् । जलकेलि
१ बी °च्छा या आ. २ बी सी सांधिक्याशु. ३ ए सी व । य.
१ए तीर्धनि. २ बी सी शोनाव. ३ ए यागो अ. ४ ए शोस्या तां. ५ बी देशोध्या'. ६ ए 'शेध्ययि'. ७ ए बी मरायु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org