SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ [ है० ६.२.९९. ] पञ्चदशः सर्गः । हव्यैस्तार्णविन्दवीयैः शुक्रियैः शतरुद्रियैः । तत्रातिशतरुद्रीयापांनप्त्रीयैव सोयजत् ।। १०६ ॥ १०६. स राजा हव्यैः कृत्वा तत्र ऋतुष्वयजदजुहोत् । किंभूतैः । तार्णबिन्दवीयैस्तार्ण विन्दवदेवतैः शुक्रियैः शुक्रदेवतैः । शतरुद्रियै रुद्रशर्तदेवतैः । अतिशतरुद्रीयापांनप्त्रीयैश्चातिशतरुद्रीयाणि शतरुद्रदेवतहव्येभ्योतिशायीनि यान्यपांनप्त्री याण्यपांनपाद्देवविशेषदेवतानि तैश्च ॥ अपोनप्त्रीयकैः सक्तैः साध्वपोनप्त्रियं द्विजैः । महेन्द्रियं महेन्द्रीयैर्यज्ञेस्य जुहुवे हविः ॥ १०७ ॥ १०७. अस्य जयसिंहस्य यज्ञे द्विजैर्यज्वभिरपोनप्लियमपोनपादेवविशेषदेवतं हविः साधु विधिवज्जुहुवेनौ हुतम् । कैः कृत्वा । अपोनप्त्रीयकैरपोनपादधिष्ठातृदेवतैः सूकैर्मन्त्रैः । तथा महेन्द्रियं महेन्द्रदैवतं हविर्महेन्द्रीयैर्महेन्द्राधिष्ठातृदेवतैः सूक्तैर्जुहुवे || अपांनप्त्रियमाहेन्द्र काय सौम्येषु कर्मसु । द्विजानां संशयं जातं सुधीः स स्वयमच्छिनत् ॥ १०८ ॥ १०८. स्पष्टः । किं त्वपांनप्लियमाहेन्द्रकायसौम्येषु कः प्रजापतिः सोमश्चेन्दुर्देवता येषां तानि कायानि सौम्यानि च ततश्चतुष्पदे विशेषणद्वन्द्वे तेषु । अपांनपादादीनुद्दिश्योक्तेष्वित्यर्थः । कर्मसु यागक्रियासु विषये जातं संशयम् । यतः सुधीः सर्वशास्त्रज्ञः || आग्रहायणिक । अश्वत्थिक । इत्यत्र " आग्रहायणी ० " [ ९९ ] इत्यादिकण् ॥ १ सी सोजयत्. १ बी 'वजयाद' सी 'ष्वजयद'. ४ बी सी 'तृदैव' ८ सी कण्वा । ऐ. ५ सी 'हेहवैव'. Jain Education International २५१ २ एतदैव. ६ बी न्द्रवैव, For Private & Personal Use Only ३ ए 'नपोनप्लीयकै:. ७ ए सी चेदुदें. www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy