SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २४४ ट्याश्रयमहाकाव्ये [जयसिंहः] औदुम्बर । इत्यत्र “तदत्रास्ति' [ ७० ] इत्यण् ॥ कौशाम्बी । इत्यत्र "तेन." [ ७१ ] इत्यादिनाण् ॥ द्रुमती । इत्यत्र "नद्यां मतुः'' [ ७२ ] इति चातुरर्थिको मतुः॥ मधुमत् । विसवत् । इत्यत्र “मध्वादेः" [ ७३ ] इति चातुरर्थिको मतुः ॥ नड्वत्कुमुद्वद्वेतस्वच्छाद्वलिन्यद्रिमूर्धनि । नाभेयचैत्यं सोपश्यदतिमाहिष्मतीपतिः ॥ ९१ ॥ ९१. स राजाद्रिमूर्धनि नाभेयचैत्यं श्री(श्रि ?)ऋषभदेवभवनमपश्यत् । किंभूते । नड्वन्तो नडाख्यतृणभेदयुक्ताः कुमुद्वन्तः कैरवयुता वेतस्वन्तो वेतसवृक्षयुक्ताः शाड्व (द्व)लाच शादः पङ्कः सस्यं वा तद्युक्ताश्च प्रदेशा अत्र सन्ति तस्मिन् । कीहक्सः। अतिमाहिष्मतीपतिर्महिष्मान्देशस्तस्यादूरभवा पुरी माहिष्मती तस्याः पतिः सहस्रार्जुनस्तं बलादिनातिक्रान्तः ॥ सोविशत्तत्र रत्नांशुनवलायितभूतले । द्वारि मुञ्चशैरीषकशिखावलमहीपती ॥ ९२ ॥ ९२. स राजा तत्र नाभेयचैत्येविशत् । किंभूते । रत्नांशुभिः कृत्वा नवलायितं नडाख्यतृणभेदान्वितप्रदेशतुल्यं भूतलं यत्र तस्मिन् । कोहक्सन् । द्वारि चैत्यसिंहद्वारे जिघांसया शत्रूणां छलेन प्रवेशस्य रक्षार्थ शैरीषको ग्रामः शिखावलं पुरं तयोर्महीपती मुञ्चन्स्थापयन् ।। ___ १ बी श्यदिति . २ बी पशि. ३ बी खाबल'. १ ए कौशम्बी. २ ए सी भेयं चै. ३ ए बी युक्ता कु. ४ ए श्च सादः. ५ बीकः शस्यं. ६ बी सी चैत्ये सिं. ७ सी क्षार्थशै'. ८ बी पतीर्मुचन्स्था... सी पति मु. ९ए सीन् । शरी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy