SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] अविसोढाः । अविदूसम् । अविमरीसानि । इत्यत्र “भवेर् ०” [ ६४ ] " इत्यादिना सोढदूसमरीसौः ॥ २४२ शैवे (वे ?) राष्ट्रेथ वङ्गानामङ्गानामाङ्गवाङ्गयोः । परतोपि स्फुरेदाज्ञा तस्य यस्त्वयि भक्तिमान् ॥ ८६ ॥ ८६. हे देव यस्त्वयि भक्तिमांस्तस्याज्ञा शैवे शिवीनां राज्ञां सक्ते राष्ट्रे देशे तथा वङ्गानामङ्गानां च राज्ञां राष्ट्रे तथाङ्गवाङ्गयोः परतोप्यङ्गवङ्गराष्ट्राभ्यां परस्मिन्नपि राष्ट्रे स्फुरेत् । स सार्वभौमः स्यादित्यर्थः ॥ शैवे (बे?) राष्ट्र । अत्र “राष्ट्रे० " [ ६५ ] इत्यादिना ॥ अनङ्गादिभ्य इति किम् । अङ्गानां राष्ट्रे । वङ्गानां राष्ट्रे ॥ केचित्त्वङ्गादिप्रतिषेधं नेच्छन्ति । आङ्गवाङ्गयोः ॥ 1 ७ दैवयात के राजन्यके वासातकेपि च । वासातस्य परस्ताच्च शासनं जयतीश ते ॥ ८७ ॥ ८७. हे ईश तव शासनमाज्ञा देवयातवानां राजन्यानां वसातीनां च राज्ञां राष्ट्रेषु वासातस्य परस्ताच्च जयति । सर्वेष्वपि देशेषु नृपा लोकाश्च तवाज्ञां कुर्वन्तीत्यर्थः ॥ राजन्यके । दैवयातवके । अत्र “राजन्य ० " [ ६६ ] इत्यादिनाकज् ॥ वासात वासातस्य । इत्यत्र “वसातेर्वा " [ ६७ ] इति वाकञ् ॥ नेमिं स्तुत्वेति पौलस्त्यं विसृज्यावातरत्समम् । सायणभक्षुकारिभक्तादिपार्थिवैः ॥ ८८ ॥ १ एष्ट्रे गंगानामाङ्ग, २ए तो स्फु° ३ ए बी तार्क्षयणभक्तेषु.. १ सी विदू . २ बी साः । शौवे. ५ ए सी धः । शौवे. ६ बी ट्रे इ. Jain Education International ३ बी "वस्त्व". ४ बी ङ्गवङ्ग ७ ए सी ट्रे । के. ८ बी 'जन इ. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy