SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ दुर्लभराजः ] त्तावद्व्यवहरत्सु मैत्र्यादिना लक्षेणोपचैरत्स्वित्यर्थः । अर्थान्नृपेषु विषये कोटिं पणायन कोट्या प्रत्युपचरन्नित्यर्थः । तथातिधूपायदकं प्रतापातिशयेन संतापयन्तं सूर्यमतिक्रान्तं दुर्लभं पनायैन्स्तुवन् ॥ ५५२ अविरमन् । आरमद्भिः । परिरमन् । इत्यत्र "व्याडू" [१०५ ] इत्यादिना परस्मै ॥ उपरमन् उपारंस्त । इत्यत्र "वोपात्" [ १०६ ] इति वा परस्मै ॥ आसयन्मित्राणि । इत्यत्र “अणिगि” [ १०७ ] इत्यादिना परस्मै ॥ अणिगीति किम् । स्वयमेवारोहयमाणमिभं प्रायुङ्क्त । इभेनारोहयत ॥ प्राणिकर्तृकेति किम् । शुष्यति स्वेदः । शोषयमाणः स्वेदं वायुः ॥ अनाप्यादिति किम् । सत्कथाः कुर्वन्ति मित्राणि प्रायुङ्काकारयत सत्कथाः ॥ चल्यर्थ । चलयन् । कम्पयन् ॥ आहारार्थ । भोजयन् । आशयन्तः ॥ इङ् । अध्यापयन्तः ॥ बुधू । बोधयन्तः ॥ युधू । योधयद्भिः ॥ प्रु । प्रावयद्भिः ॥ गु 1 द्रावयद्भिः ॥ स्रु । स्त्रावयद्भिः ॥ नशू । नाशयद्भिः ॥ जन् । जनयद्भिः । इत्यत्र “चल्याहारा° [१०८] इत्यादिना परस्मै ॥ एकादशः पादः समर्थितः ॥ गोपायतः । धूपायत् । अविच्छायत् । पणायन् । पनार्थन् । इत्यत्र " गुपौ - धूप ” [१] इत्यादिनायः ॥ व्यवहारार्थात्पणो नेच्छन्त्येके । पणमानेषु ॥ ,, कन्यां कामयमानस्तामन्येद्युः प्राविशत्पुरीम् । ऋतीयमानः स्वर्गोप्ला सोथ गोपायिता भुवः ॥ ७६ ॥ ७६. अथान्येद्युः स भुवो गोपायिता रक्षिता दुर्लभः पुरीं प्राविशत् । कीदृक्सन् । स्वर्गोप्लेन्द्रेण ऋतीयमानो महद्धर्ज्या स्पर्धमानस्तथा १ सी गोपाच° २ए 'चयर ३ डी 'यन्ब्रुव ४ डी उपार. ५ बी “यम् । इ. ६ डी ई पर्ने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy