SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.८१.] सप्तमः सर्गः । ५४१ विप्रावदन्त । विप्रावदन् । इत्यत्र "विवादे वा " [ ८० ] इति वात्मने ॥ मिथोनुवदमानाः । अत्र “अनोः " [१] इत्यादिनात्मने ॥ कर्मण्यसतीति किम् | वचोन्ववदन् ॥ राजपुत्रस्य जानानोपतस्थे जनतोन्मुखी । संगच्छमाना संपृच्छमाना संशुश्रुवे तथा ॥ ५१ ॥ ५१. जनता ग्रामादिजनौघ उन्मुखी सैन्यसंमुखोपतस्थे डुढौके । यतो राजपुन्नस्य वल्लभस्य जानाना राजपुत्रेण कृत्वा प्रवर्तमाना राजपुत्रे रक्ता सेनान्यमपि राजपुत्रतयाध्यवस्यन्तीवेत्यर्थः । ततश्च तथ सं यथावृत्तमर्णितवती । यतः संगच्छमाना सैन्यैः सह मिलन्ती संपृच्छमाना सैन्यान्प्रश्रयन्ती च ॥ संविदानां तथा संस्वरमाणां विनिवार्य ताम् । सैन्या धैर्ये समित्राणाः समृच्छन्ते स्म पत्तने ॥ ५२ ॥ ५२. तथा कुमारस्य तं मृत्युप्रकारं संविदानां जानतीमत एव संस्वरमाणां शोकेन विलपन्तीं तां जनतां विनिवार्य सैन्याः पत्तने समृच्छन्ते स्म प्राप्ताः । ऋच्छेरतैर्वा रूपमिदम् । किंभूताः सन्तः । धैर्ये समियाणा: संगच्छमानाः ॥ राज्ञि संपश्यमानेथ शोकपूर्णा विचक्रिरे । ते स्वरानविकुर्वाणा धैर्यात्तत्सर्वमूचिरे ॥ ५३ ॥ ५३. अथ राज्ञि चामुण्डराजे संपश्यमाने सैन्याभिमुखं पश्यति ते सैन्याः शोकपूर्णाः सन्तो विचक्रिरे । आक्रन्दनादिकचेष्टाभिनिष्फलमचेष्टन्तेत्यर्थः । ततश्च धैर्याच्चित्तावष्टम्भमाश्रित्य स्वरानविकुर्वाणा नानाविधान् शब्दानकुर्वाणास्तद्यथावृत्तं सर्वमूचिरे ॥ १ए था शु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy