SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५३४ व्याश्रयमहाकाव्ये [ वल्लभराजः ] कुतानुपतिष्ठते मत्रैस्तमुपातिष्ठन्त । इत्यत्र “देवाच" [६०] इत्यादिना देवार्चादिषु क्रमेणात्मने ॥ दातृन्नोपतस्थिरे यानुपास्धुः । अत्र " वा लिप्सायाम्" [६१] इति वात्मने ॥ मुक्तावतिष्ठमानास्ते पुरो यावद्वितस्थिरे । उदस्थादासनात्तावत्सोवतस्थे च साञ्जलिः ॥ ३७ ॥ ३७. मुक्तौ मोक्षार्थमुत्तिष्ठमाना धर्मानुष्ठानेन चेष्टमानास्ते मार्गाश्रमतापसाः पुरो वल्लभस्याग्रतो यावद्वितस्थिरे विशिष्टेन मुनिजनोचितेन संस्थानेन स्थितास्तावत्स वल्लभो विनीतत्वेनासनादुदस्थत्साश्चलिश्च योजित करयुगश्चावतस्थेवस्थितः ॥ मा प्रतिष्ठस्व संतिष्ठखाद्य तिष्ठामहे हि त्वयि नस्तिष्ठते प्रीतिः केप्यूचुरिति तं नृपाः ॥ ३८ ॥ ३८. केपि भक्ता नृपास्तं वल्लभमूचुः । कथमित्याह । मा प्रतिष्ठ मा प्रस्थानं कार्षीरद्य संतिष्ठस्वात्रैव तिष्ठ । हि यस्मादद्य वयं वो युष्मभ्यं तिष्ठामहे स्वाभिप्रायप्रकाशनेनात्मानं रोचयामः । ननु किमिति यूयमस्मभ्यं तिष्ठध्व इत्याशङ्कयाहुः । यस्मान्नोस्माकं प्रीतिरन्तरङ्गस्त्रेहस्त्वयि तिष्ठते त्वया प्रमाणभूतेन मानितास्मत्प्रीतिः प्रमाणमि - त्यर्थ इति ॥ मुक्ताबुत्तिष्ठमानाः | अन्न "उद: " [६२ ] इत्यादिनात्मने ॥ अनूर्ध्वेह इति किम् । आसनार्बुदस्थात् ॥ संतिष्ठस्व । वितस्थिरे । प्रतिष्ठस्व । अवतस्थे । अत्र "संविप्रावात् " [ ६३ ] I इत्यात्मने ॥ १ डी ते इ. ५ सी डी र्थः ॥ Jain Education International २ई. चदिषु . ३ एरे वशि. ए बी सी डी एफ 'दुत्तस्थौ ॥ सं ६ For Private & Personal Use Only ४ई स्थात्प्रा . www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy