SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५३२ घ्याश्रयमहाकाव्ये [वल्लभराजः] आपृच्छतागतान्कांश्चिदानुवानपयूरवाक् । कांश्चिदागमयांचक्रे स दत्त्वैकं प्रयाणकम् ॥ ३२॥ ३२. स वल्लभ एकं प्रयाणकं दत्त्वा कांश्चिद्वन्धुमित्रामात्यादीनागताननुब्रजनायायातानापृच्छत वियुज्यमानः प्रयाणकविषयेनुज्ञापितवान् । कीहक्सन् । आनुवान उत्कण्ठापूर्व शब्दायमानो यो मयूरस्तस्येव स्निग्धा मधुरा च वाग्यस्य सः । तथा कांश्चिन्नपादीनागमयांचके कंचित्कालं प्रतीक्षितवान् । एतेन सर्वसैन्यमेलनमुक्तम् ॥ आनुवान । आपृच्छत । इत्यत्र “नुप्रच्छः" [५४] इत्यात्मने ॥ आगमयांचक्रे । अत्र “गमेः क्षान्तौ” [५५] इत्यात्मने ॥ तं नाहन्त नृपा यान्तमाह्वयन्तं जयश्रियम् । बन्धून्संह्वयमानास्तु न्यह्वयन्तार्थहेतवे ॥ ३३ ॥ ३३. तं वल्लभं नृपा अन्तरालस्था राजानो नाह्वन्त स्पर्धमाना नाकारितवन्तः । किंभूतं सन्तम् । जयश्रियमाह्वयन्तं मालव्यराजजयेच्छुमित्यर्थः । अत एव मालवान्प्रति यान्तम्। तुर्विशेषे । किं तु बन्धून्संह्वयमाना मेलनायाकारयन्तः सन्तो नृपा अर्थहेतवे पूजार्थं तं न्यह्वयन्त न्यमन्त्रयन् ॥ व्यह्वास्तारान्नतांस्तान्स तद्वन्धूनप्युपाहत । तत्याभृतान्युपायंस्तोपतस्थे चाध्वदेवताः ॥ ३४ ॥ ३४. स वल्लभस्तान्नृपानारात्समीपे नतान्सतो व्यह्रास्ताललाप । तद्वन्धूनपि नृपाणां बान्धर्वाश्वोपाहताललाप । तथा तत्प्राभृतानि नृपढौकनान्युपायंस्ताङ्गीचक्रे । तथाध्वदेवता देवकुलादिस्था मार्गाधिष्ठातृदेवता निरुपद्रवायोपतस्थे च पुष्पफलादिनार्चितवान् । एतेनास्य सौंचित्यज्ञतोक्ता ॥ १ सी डी के किंचि. २ सी डी न् । इत्येते. ३ ए. °यन्तं न्य'. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy