SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ [ है० ३.३.३६.] सप्तमः सर्गः । ५२५ __ अननुक्रीडमानाय । आक्रीडमानाः । परिक्रीडमानैः । अत्र “अन्वारेः” [३४] इत्यात्मने ॥ अशपन्तास्मै । अत्र "शपः” [३५] इत्यादिनात्मने ॥ अस्य नाथन्ते । अत्र "आशिषि नाथः" [३६] इत्यात्मने ॥ सह तेनाग्रजो भुङ्क्ते स्माभुनक्सोपि तद्वचः । पितुस्तावनुजलाते नयमानौ नयागमे ॥१९॥ १९. तेन दुर्लभेन सहाग्रजो वल्लभो भुङ्क्ते स्मात्ति स्म । सोपि दुर्लभोपि तद्वचोग्रजवचनमभुनक् पालितवान् । एतेनैतयोरत्यन्तं स्नेहानुबन्ध उक्तः । तथा नयागमे नीतिशास्त्रे नयमानौ नयागमे संध्यादीन्सद्गुणान्युक्तिभिः स्थिरीकृत्यान्योन्यस्य सहाध्यायिराजकुमाराणां वा बुद्धि प्रापयन्तावित्यर्थः । तौ कुमारौ पितुरनुजहाते पितुर्गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलितवन्तौ पितुर्गमनमविच्छेदेन शीलितवन्तौ वा पितृवजग्मतुर्वा पितृवच्छीलयामासतुवेत्यर्थः ॥ जज्ञे विनेष्यमाणोर्थानागराजो नृपस्य तुक् । मातोदानयमाना यं नयते स्म सुधारसे ॥२०॥ २०. शुभलक्षणसूचितौदार्यधार्मिकत्वादिगुणत्वादर्थान्धनानि विनेष्यमाणो धर्माद्यर्थं तीर्थादिषु विनियोक्ष्यमाणो नागराजो नाम नृपस्य तुक् तृतीयः पुत्रो जज्ञे । यं नागराजमुदानयमानोत्सङ्ग आरोपणायोक्षिपन्ती सती माता सुधारसे नयते स्म सुधारसविषयं प्रमेयमास्वादं निश्चिनोति स्म । अमृतपानसुखमनुबभूवेति तात्पर्यम् ॥ १ सी °मभून. २ सी डी नैव त'. ३ ए °न्ध रक्तः ।. ४ बी जरमुतु. सी जन्मतु. ५ डी जो नृ. ६ ए °तीयपु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy