SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज: ] प्राचालीत् । किंभूतः । द्राविकाङ्गान्निर्गच्छन्ती या वीक्षणीया स्वर्णवर्णत्वाद्दर्शनीया तां त्विषं तन्वन् । उत्प्रेक्ष्यते । भव्या ऋक्ष्णत्वादिगुणैः प्रशस्यात एव या प्रिया सर्वजनवल्लभा तां रौचनिकी रोचनया रक्ता योत्पद्र्युपरितनवस्त्रं तां नु तामिव तन्वन् । यद्वा । नुरुपमायाम् । यथा रौनिकोत्पटी परिधानेन तनोत्येवं त्विषं तन्वन्नत एव हरेर्विष्णोरेकादशमूर्तिरिव । एकादश्येकादशानां पूरणी या मूर्तिः सेव । हरेर्हि मत्स्य १ कूर्म २ वराह ३ नारसिंह ४ वामन ५ राम ६ राम ७ कृष्ण ८ बुद्ध ९ कल्क्या [१०]ख्या दशैवावतारा : प्रसिद्धाः । अयं त्वेकादशोवतार इवेत्यर्थः । हरेरपि हि मूर्तिः पीताम्बरत्वाद्रौ - चनिकोत्पटी तनोति ॥ 3 ४७२ समुत्सुको दारददत्तभार्यापतिं स तं वैदिशनार्यपत्यम् । हन्तुं कठस्त्रीजुपि दीर्घकेशपौरीप्रिये श्वभ्रवतीतटेगात् ॥ ४५ ॥ ४५. स मूलराजः श्वभ्रवतीतटे श्वभ्रवत्याख्य नदीतीरे वसीम - सन्धावगात् । कीदृक्सन् । तं लाटं हेतुं समुत्सुकः । कीदृशम् । दत्ता चासौ भार्या च दत्तभार्या दरदरदो राज्ञोपत्यं स्त्री या दत्तभार्या तस्याः पतिम् । तथा वैदिशी विदिशानगरीजाता या नारी स्त्री तस्या अपत्यम् । किंभूते तटे । कट्यो याः स्त्रियस्तदाश्रये । तथा दीर्घकेश्यों याः पौर्य: पुराङ्गनास्तासां पुष्पोश्चय क्रीडादिहेतुत्वात्प्रिये ॥ १ ए सी डी दिसना १ ए सी डी की च'. २ ए सी नुरूप . ५ ए सी डी हन्तुमु ४ ए सी डी बुधक. Jain Education International ३ ए सी डी वारा. ६ बी 'इयो या पौ For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy