SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५६ व्याश्रयमहाकाव्ये [ मूलराजः ] जङ्गन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मिधृतानद्भिः । ग्राम्यैरविद्वद्भिरुदीक्ष्यतेसौ खास दिन्दुर्दधिपिण्डबुद्ध्या ॥ ४१ ॥ ४१. प्राम्यैरसाविन्दुर्दधिपिण्डबुद्ध्या स्थूलदधिवराटकाशङ्कयोदीक्ष्यत ऊर्ध्वमालोक्यते । कीदृक्सन् । व्यव पृथुत्वात् श्यामत्वाच्चोखा स्थाली तस्याः सकाशात्स्रंसतेधः पतति द्यूखास्रत् । कीदृशैः सद्भिः । जङ्गन्म इत्युक्तिपरैः कुटिलं गच्छाम इत्युच्चारयद्भिः । ग्राम्या हि प्रायेण प्रातः पत्रघासाद्यानयनायान्योन्यमाकारयन्तो बहिर्व्रजन्ति । तथा पर्णानि ध्वंसते पर्णध्वद्यायष्टिर्व्यङ्गुलंदार्वादिः सह तया बदरीपत्रादिपातनार्थं वर्तन्ते ये तैः । तथा पत्रघासादिभारारोपार्थ रश्मौ रजौ धृता अवष्टब्धा अनङ्ग्राहो वृषा यैस्तैः । तथाविद्वद्भिर्ग्राम्यत्वान्मुग्धैः । ग्रामेषु दधिबाहुल्येन ग्राम्याणां स्थाल्यधःपतनदधिपिण्डस्य सुपरिचितत्वादस्तकाले व्योम्नोधः पततीन्दौ तथात्वेनाध्यवसायः ॥ उदीयिवद्दैत्यरणाध्वरत्विक्सहस्रदृग्दिक्स्पृगुदकरस्रक् । अजीवनग्भिर्मुनिभिर्दर्धृग्भिरुष्णिक्स्तु तो वोस्त्वनट्कृतेर्कः ॥ ४२ ॥ ४२. हे राजन् वो युष्माकमघट्कृतेघस्य पापस्य या नट् नाशस्तस्या यत्कृत् करणं तस्यायर्कोस्तु | कीदृक् । उदीयिवांसस्तत्कालोदिता ये दैत्या मन्देहाख्याः पष्टिसहस्राणि तेषां यो रणः स एवाध्वरो यागस्तत्र ऋत्विक् । यथर्विक् पशुमेधयागे पशून् हन्ति तथा दैत्यान् रणे घ्नन्नित्यर्थः । तथा सहस्रदृश इन्द्रस्य दिशं पूर्वी स्पृशति यः सः । १ ए सी ध्वयष्टि. २ए धृद्भिरु. ३ सी डी नङ्कृते . १ सी डी 'लदीर्घा स. २ एफ् रोपणार्थ. ३ बी वृषभा यै . ४ सी ° दत्तका . डी का . ५ सी वो ६ सी डी नङ्कृते ७ डी हन्नि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy